Yoga-Kundalini Upanishad

Complete Upanishad

Containing 172 sacred Sanskrit shlokas with multi-author commentaries and translations.

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 1

योगकुण्डलिन्युपनिषत्

योगकुण्डल्युपनिषद्योगसिद्धिहृदासनम् ।

निर्विशेषब्रह्मतत्त्वं स्वमात्रमिति चिन्तये ॥

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

हेतुद्वयं हि चित्तस्य वासना च समीरणः ।

तयोर्विनष्ट एकस्मिंस्तद्द्वावपि विनश्यतः

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 2

तयोरादौ समीरस्य जयं कुर्यान्नरः सदा ।

मिताहारश्चासनं च शक्तिश्चालस्तृतीयकः

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 3

एतेषां लक्षणं वक्ष्ये श‍ृणु गौतम सादरम् ।

सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 4

भुज्यते शिवसम्प्रीत्यै मिताहारः स उच्यते ।

आसनं द्विविधं प्रोक्तं पद्मं वज्रासनं तथा

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 5

ऊर्वोरुपरि चेद्धत्ते उभे पादतले यथा ।

पद्मासनं भवेदेतत्सर्वपापप्रणाशनम्

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 6

वामाङ्घ्रिमूलकन्दाधो ह्यन्यं तदुपरि क्षिपेत् ।

समग्रीवशिरःकायो वज्रासनमितीरितम्

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 7

कुण्डल्येव भवेच्छक्तिस्तां तु सञ्चालयेद्बुधः ।

स्वस्थानादाभ्रुवोर्मध्यं शक्तिचालनमुच्यते

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 8

तत्साधने द्वयं मुख्यं सरस्वत्यास्तु चालनम् ।

प्राणरोधमथाभ्यासादृज्वी कुण्डलिनी भवेत्

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 9

तयोरादौ सरस्वत्याश्चालनं कथयामि ते ।

अरुन्धत्येव कथिता पुराविद्भिः सरस्वती

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 10

यस्याः सञ्चालनेनैव स्वयं चलति कुण्डली ।

इडायां वहति प्राणे बद्ध्वा पद्मासनं दृढम्

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 11

द्वादशाङ्गुलदैर्घ्यं च अम्बरं चतुरङ्गुलम् ।

विस्तीर्य तेन तन्नाडीं वेष्टयित्वा ततः सुधीः

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 12

अङ्गुष्ठतर्जनीभ्यां तु हस्ताभ्यां धारयेद्धृढम् ।

स्वशक्त्या चालयेद्वामे दक्षिणेन पुनःपुनः

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 13

मुहूर्तद्वयपर्यन्तं निर्भयाच्चालयेत्सुधीः ।

ऊर्ध्वमाकर्षयेत्किञ्चित्सुषुम्नां कुण्डलीगताम्

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 14

तेन कुण्डलिनी तस्याः सुषुम्नाया मुखं व्रजेत् ।

जहाति तस्मात्प्राणोऽयं सुषुम्नां व्रजति स्वतः

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 15

तुन्दे तु तानं कुर्याच्च कण्ठसङ्कोचने कृते ।

सरस्वत्यां चालनेन वक्षसश्चोर्ध्वगो मरुत्

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 16

सूर्येण रेचयेद्वायुं सरस्वत्यास्तु चालने ।

कण्ठसङ्कोचनं कृत्वा वक्षसश्चोर्ध्वगो मरुत्

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 17

तस्मात्सञ्चालयेन्नित्यं शब्दगर्भां सरस्वतीम् ।

यस्याः सञ्चालनेनैव योगी रोगैः प्रमुच्यते

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 18

गुल्मं जलोदरः प्लीहा ये चान्ये तुन्दमध्यगाः ।

सर्वे ते शक्तिचालेन रोगा नश्यन्ति निश्चयम्

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 19

प्राणरोधमथेदानीं प्रवक्ष्यामि समासतः ।

प्राणश्च दहनो वायुरायामः कुम्भकः स्मृतः

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 20

स एव द्विविधः प्रोक्तः सहितः केवलस्तथा ।

यावत्केवलसिद्धिः स्यात्तावत्सहितमभ्यसेत्

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 21

सूर्योज्जायी शीतली च भस्त्री चैव चतुर्थिका ।

भेदैरेव समं कुम्भो यः स्यात्सहितकुम्भकः

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 22

पवित्रे निर्जने देशे शर्करादिविवर्जिते ।

धनुःप्रमाणपर्यन्ते शीताग्निजलवर्जिते

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 23

पवित्रे नात्युच्चनीचे ह्यासने सुखदे सुखे ।

बद्धपद्मासनं कृत्वा सरस्वत्यास्तु चालनम्

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 24

दक्षनाड्या समाकृष्य बहिष्ठं पवनं शनैः ।

यथेष्टं पूरयेद्वायुं रेचयेदिडया ततः

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 25

कपालशोधने वापि रेचयेत्पवनं शनैः ।

चतुष्कं वातदोषं तु कृमिदोषं निहन्ति च

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 26

पुनः पुनरिदं कार्यं सूर्यभेदमुदाहृतम् ।

मुखं संयम्य नाडिभ्यामाकृष्य पवनं शनैः

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 27

यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ।

पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया ततः

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 28

शीर्षोदितानलहरं गलश्लेष्महरं परम् ।

सर्वरोगहरं पुण्यं देहानलविवर्धनम्

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 29

नाडीजलोदरं धातुगतदोषविनाशनम् ।

गच्छतस्तिष्ठतः कार्यमुज्जाय्याख्यं तु कुम्भकम्

Yoga-Kundalini Upanishad

Complete Upanishad, Verse 30

जिह्वया वायुमाकृष्य पूर्ववत्कुम्भकादनु ।

शनैस्तु घ्राणरन्ध्राभ्यां रेचयेदनिलं सुधीः