Yoga Tattva Upanishad

Complete Upanishad

Containing 142 sacred Sanskrit shlokas with multi-author commentaries and translations.

Yoga Tattva Upanishad

Complete Upanishad, Verse 1

योगतत्त्वोपनिषत्

योगैश्वर्यं च कैवल्यं जायते यत्प्रसादतः ।

तद्वैष्णवं योगतत्त्वं रामचन्द्रपदं भजे ॥

ॐ सह नाववतु ॥

सह नौ भुनक्तु ॥

सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया ।

यच्छृत्वा च पठित्वा च सर्वपापैः प्रमुच्यते

Yoga Tattva Upanishad

Complete Upanishad, Verse 2

विष्णुर्नाम महायोगी महाभूतो महातपाः ।

तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः

Yoga Tattva Upanishad

Complete Upanishad, Verse 3

तमाराध्य जगन्नाथं प्रणिपत्य पितामहः ।

पप्रच्छ योगतत्त्वं मे ब्रूहि चाष्टाङ्गसंयुतम्

Yoga Tattva Upanishad

Complete Upanishad, Verse 4

तमुवाच हृषीकेशो वक्ष्यामि श‍ृणु तत्त्वतः ।

सर्वे जीवाः सुखैर्दुखैर्मायाजालेन वेष्टिताः

Yoga Tattva Upanishad

Complete Upanishad, Verse 5

तेषां मुक्तिकरं मार्गं मायाजालनिकृन्तनम् ।

जन्ममृत्युजराव्याधिनाशनं मृत्युतारकम्

Yoga Tattva Upanishad

Complete Upanishad, Verse 6

नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् ।

पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः

Yoga Tattva Upanishad

Complete Upanishad, Verse 7

अनिर्वाच्यं पदं वक्तुं न शक्यं तैः सुरैरपि ।

स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाशते

Yoga Tattva Upanishad

Complete Upanishad, Verse 8

निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् ।

तदेव जीवरूपेण पुण्यपापफलैर्वृतम्

Yoga Tattva Upanishad

Complete Upanishad, Verse 9

परमात्मपदं नित्यं तत्कथं जीवतां गतम् ।

सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम्

Yoga Tattva Upanishad

Complete Upanishad, Verse 10

वारिवत्स्फुरितं तस्मिंस्तत्राहंकृतिरुत्थिता ।

पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम्

Yoga Tattva Upanishad

Complete Upanishad, Verse 11

सुखदुःखैः समायुक्तं जीवभावनया कुरु ।

तेन जीवाभिधा प्रोक्ता विशुद्धैः परमात्मनि

Yoga Tattva Upanishad

Complete Upanishad, Verse 12

कामक्रोधभयं चापि मोहलोभमदो रजः ।

जन्ममृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा

Yoga Tattva Upanishad

Complete Upanishad, Verse 13

तृष्णा लज्जा भयं दुह्खं विषादो हर्ष एव च ।

एभिर्दोषैर्विनिर्मुक्तः स जीवः केवलो मतः

Yoga Tattva Upanishad

Complete Upanishad, Verse 14

तस्माद्दोषविनाशार्थमुपायं कथयामि ते ।

योगहीनं कथं ज्ञानं मोक्षदं भवति ध्रुवम्

Yoga Tattva Upanishad

Complete Upanishad, Verse 15

योगो हि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि ।

तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत्

Yoga Tattva Upanishad

Complete Upanishad, Verse 16

अज्ञानादेव संसारो ज्ञानादेव विमुच्यते ।

ज्ञानस्वरूपमेवादौ ज्ञानं ज्ञेयैकसाधनम्

Yoga Tattva Upanishad

Complete Upanishad, Verse 17

ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् ।

निष्कलं निर्मलं साक्षात्सच्चिदानन्दरूपकम्

Yoga Tattva Upanishad

Complete Upanishad, Verse 18

उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् ।

एतज्ज्ञानमिति प्रोक्तमथ योगं ब्रवीमि ते

Yoga Tattva Upanishad

Complete Upanishad, Verse 19

योगो हि बहुधा ब्रह्मन्भिद्यते व्यवहारतः ।

मन्त्रयोगो लयश्चैव हठोऽसौ राजयोगतः

Yoga Tattva Upanishad

Complete Upanishad, Verse 20

आरम्भश्च घटश्चैव तथा परिचयः स्मृतः ।

निष्पत्तिश्चेत्यवस्था च सर्वत्र परिकीर्तिता

Yoga Tattva Upanishad

Complete Upanishad, Verse 21

एतेषां लक्षणं ब्रह्मन्वक्ष्ये श‍ृणु समासतः ।

मातृकादियुतं मन्त्रं द्वादशाब्दं तु यो जपेत्

Yoga Tattva Upanishad

Complete Upanishad, Verse 22

क्रमेण लभते ज्ञानमणिमादिगुणान्वितम् ।

अल्पबुद्धिरिमं योगं सेवते साधकाधमः

Yoga Tattva Upanishad

Complete Upanishad, Verse 23

लययोगश्चित्तलयः कोटिशः परिकीर्तितः ।

गच्छंस्तिष्ठन्स्वपन्भुञ्जन्ध्यायेन्निष्कलमीश्वरम्

Yoga Tattva Upanishad

Complete Upanishad, Verse 24

स एव लययोगः स्याद्धठयोगमतः श‍ृणु ।

यमश्च नियमश्चैव आसनं प्राणसंयमः

Yoga Tattva Upanishad

Complete Upanishad, Verse 25

प्रत्याहारो धारणा च ध्यानं भ्रूमध्यमे हरिम् ।

समाधिः समतावस्था साष्टाङ्गो योग उच्यते

Yoga Tattva Upanishad

Complete Upanishad, Verse 26

महामुद्रा महाबन्धो महावेधश्च खेचरी ।

जालन्धरोड्डियाणश्च मूलबन्धैस्तथैव च

Yoga Tattva Upanishad

Complete Upanishad, Verse 27

दीर्घप्रणवसन्धानं सिद्धान्तश्रवणं परम् ।

वज्रोली चामरोली च सहजोली त्रिधा मता

Yoga Tattva Upanishad

Complete Upanishad, Verse 28

एतेषां लक्षणं ब्रह्मन्प्रत्येकं श‍ृणु तत्त्वतः ।

लघ्वाहारो यमेष्वेको मुख्या भवति नेतरः

Yoga Tattva Upanishad

Complete Upanishad, Verse 29

अहिंसा नियमेष्वेका मुख्या वै चतुरानन ।

सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम्

Yoga Tattva Upanishad

Complete Upanishad, Verse 30

प्रथमाभ्यासकाले तु विघ्नाः स्युश्चतुरानन ।

आलस्यं कत्थनं धूर्तगोष्टी मन्त्रादिसाधनम्