Complete Upanishad, Verse 1
योगशिखोपनिषत्
योगज्ञाने यत्पदाप्तिसाधनत्वेन विश्रुते ।
तत्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ॥
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः ।
तेषां मुक्तिः कथं देव कृपया वद शङ्कर