Yoga Chudamani Upanishad

Complete Upanishad

Containing 120 sacred Sanskrit shlokas with multi-author commentaries and translations.

Yoga Chudamani Upanishad

Complete Upanishad, Verse 1

योगचूडामण्युपनिषत्

मूलाधारादिषट्चक्रं सहस्रारोपरि स्थितम् ।

योगज्ञानैक फलकं रामचन्द्रपदं भजे ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च ॥

सर्वाणि सर्वं

ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा

ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु

ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ योगचूडामणिं वक्ष्ये योगिनां हितकाम्यया ।

कैवल्यसिद्धिदं गूढं सेवितं योगवित्तमैः

Yoga Chudamani Upanishad

Complete Upanishad, Verse 2

आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।

ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट्

Yoga Chudamani Upanishad

Complete Upanishad, Verse 3

एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ।

षट्चक्रं षोडशाधारं त्रिलक्ष्यं व्योमपञ्चकम्

Yoga Chudamani Upanishad

Complete Upanishad, Verse 4

स्वदेहे यो न जानाति तस्य सिद्धिः कथं भवेत् ।

चतुर्दलं स्यादाधारं स्वाधिष्ठानं च षड्दलम्

Yoga Chudamani Upanishad

Complete Upanishad, Verse 5

नाभौ दशदलं पद्मं हृदये द्वादशारकम् ।

षोडशारं विशुद्धाख्यं भ्रूमध्ये द्विदलं तथा

Yoga Chudamani Upanishad

Complete Upanishad, Verse 6

सहस्रदलसङ्ख्यातं ब्रह्मरन्ध्रे महापथि ।

आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्

Yoga Chudamani Upanishad

Complete Upanishad, Verse 7

योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते ।

कामाख्यं तु गुदस्थाने पङ्कजं तु चतुर्दलम्

Yoga Chudamani Upanishad

Complete Upanishad, Verse 8

तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता ।

तस्य मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम्

Yoga Chudamani Upanishad

Complete Upanishad, Verse 9

नाभौ तु मणिवद्बिम्बं यो जानाति स योगवित् ।

तप्तचामीकराभासं तडिल्लेखेव विस्फुरत्

Yoga Chudamani Upanishad

Complete Upanishad, Verse 10

त्रिकोणं तत्पुरं वह्नेरधोमेढ्रात्प्रतिष्ठितम् ।

समाधौ परमं ज्योतिरनन्तं विश्वतोमुखम्

Yoga Chudamani Upanishad

Complete Upanishad, Verse 11

तस्मिन्दृष्टे महायोगे यातायातो न विद्यते ।

स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः

Yoga Chudamani Upanishad

Complete Upanishad, Verse 12

स्वाधिष्ठाश्रयादस्मान्मेढ्रमेवभिधीयते ।

तन्तुना मणिवत्प्रोतो योऽत्र कन्दः सुषुम्नया

Yoga Chudamani Upanishad

Complete Upanishad, Verse 13

तन्नाभिमण्डले चक्रं प्रोच्यते मणिपूरकम् ।

द्वादशारे महाचक्रे पुण्यपापविवर्जिते

Yoga Chudamani Upanishad

Complete Upanishad, Verse 14

तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति ।

ऊर्ध्वं मेढ्रादधो नाभेः कन्दे योनिः खगाण्डवत्

Yoga Chudamani Upanishad

Complete Upanishad, Verse 15

तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ।

तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृता

Yoga Chudamani Upanishad

Complete Upanishad, Verse 16

प्रधानाः प्राणवाहिन्यो भूयस्तासु दशस्मृताः ।

इडा च पिङ्गला चैव सुषुम्ना च तृतीयगा

Yoga Chudamani Upanishad

Complete Upanishad, Verse 17

गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ।

अलम्बुसा कुहूश्चैव शङ्खिनी दशमी स्मृता

Yoga Chudamani Upanishad

Complete Upanishad, Verse 18

एतन्नाडीमहाचक्रं ज्ञातव्यं योगिभिः सदा ।

इडा वामे स्थिता भागे दक्षिणे पिङ्गला स्थिता

Yoga Chudamani Upanishad

Complete Upanishad, Verse 19

सुषुम्ना मध्यदेशे तु गान्धारी वामचक्षुषि ।

दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे

Yoga Chudamani Upanishad

Complete Upanishad, Verse 20

यशस्विनी वामकर्णे चानने चापुअलम्बुसा ।

कुहूश्च लिङ्गदेशे तु मूलस्थाने तु शङ्खिनी

Yoga Chudamani Upanishad

Complete Upanishad, Verse 21

एवं द्वारं समाश्रित्य तिष्ठन्ते नाडयः क्रमात् ।

इडापिङ्गलासौषुम्नाः प्राणमार्गे च संस्थिताः

Yoga Chudamani Upanishad

Complete Upanishad, Verse 22

सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः ।

प्राणापानसमानाख्या व्यानोदानौ च वायवः

Yoga Chudamani Upanishad

Complete Upanishad, Verse 23

नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ।

हृदि प्राणः स्थितो नित्यमपानो गुदमण्डले

Yoga Chudamani Upanishad

Complete Upanishad, Verse 24

समानो नाभिदेशे तु उदानः कण्ठमध्यगः ।

व्यानः सर्वशरीरे तु प्रधानाः पञ्चवायवः

Yoga Chudamani Upanishad

Complete Upanishad, Verse 25

उद्गारे नाग आख्यातः कूर्म उन्मीलने तथा ।

कृकरः क्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे

Yoga Chudamani Upanishad

Complete Upanishad, Verse 26

न जहाति मृतं वापि सर्वव्यापी धनञ्जयः ।

एते नाडीषु सर्वासु भ्रमन्ते जीवजन्तवः

Yoga Chudamani Upanishad

Complete Upanishad, Verse 27

आक्षिप्तो भुजदण्डेन यथा चलति कन्दुकः ।

प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति

Yoga Chudamani Upanishad

Complete Upanishad, Verse 28

प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति ।

वामदक्षिणमार्गाभ्यां चञ्चलत्वान्न दृश्यते

Yoga Chudamani Upanishad

Complete Upanishad, Verse 29

रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः ।

गुणबद्धस्तथा जीवः प्राणापानेन कर्षति

Yoga Chudamani Upanishad

Complete Upanishad, Verse 30

प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च गच्छति ।

अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति