Adhyaya 8, Verse 1
उ॒प॒या॒मगृ॑हीतोऽस्यादि॒त्येभ्य॑स्त्वा ।
विष्ण॑ उरुगायै॒ष ते॒ सोम॒स्तᳪ र॑क्षस्व॒ मा त्वा॑ दभन्
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
उ॒प॒या॒मगृ॑हीतोऽस्यादि॒त्येभ्य॑स्त्वा ।
विष्ण॑ उरुगायै॒ष ते॒ सोम॒स्तᳪ र॑क्षस्व॒ मा त्वा॑ दभन्
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ ।
उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यत आदि॒त्येभ्य॑स्त्वा
क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी ।
तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यमात॑स्थाव॒मृतं॑ दि॒व्या॒दि॒त्येभ्य॑स्त्वा
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्त॑: ।
आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑दादि॒त्येभ्य॑स्त्वा
विव॑स्वन्नादित्यै॒ष ते॑ सोमपी॒थस्तस्मि॑न् मत्स्व ।
श्रद॑स्मै नरो॒ वच॑से दधातन॒ यदा॑शी॒र्दा दम्प॑ती वा॒मम॑श्नु॒तः ।
पुमा॑न् पु॒त्रो जा॑यते वि॒न्दते॒ वस्वधा॑ वि॒श्वाहा॑र॒प ए॑धते गृ॒हे
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वे दि॑वे वा॒मम॒स्मभ्य॑ᳪ सावीः ।
वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाज॑: स्याम
उ॒प॒या॒मगृ॑हीतोऽसि सावि॒त्रो॒ऽसि चनो॒धाश्च॑नो॒धा अ॑सि॒ चनो॒ मयि॑ धेहि ।
जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिं॒ भगा॑य दे॒वाय॑ त्वा सवि॒त्रे
उ॒प॒या॒मगृ॑हीतोऽसि सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नो बृ॒हदु॑क्षाय॒ नम॑: ।
विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॑:
उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पति॑सुतस्य देव सोम त॒ इन्दो॑रिन्द्रि॒याव॑त॒: पत्नी॑वतो॒ ग्रहाँ॑२ ऋध्यासम् ।
अ॒हं प॒रस्ता॑द॒हम॒वस्ता॒द्यद॒न्तरि॑क्षं॒ तदु॑ मे पि॒ताऽभू॑त् ।
अ॒हᳪ सूर्य॑मुभ॒यतो॑ ददर्शा॒हं दे॒वानां॑ पर॒मं गुहा॒ यत्
अग्ना३इ॒ पत्नी॑वन्त्स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑ पिब॒ स्वाहा॑ ।
प्र॒जाप॑ति॒र्वृषा॑ऽसि रेतो॒धा रेतो॒ मयि॑ धेहि प्र॒जाप॑तेस्ते॒ वृष्णो॑ रेतो॒धसो॑ रेतो॒धाम॑शीय
उ॒प॒या॒मगृ॑हीतोऽसि॒ हरि॑रसि हारियोज॒नो हरि॑भ्यां त्वा ।
हर्यो॑र्धा॒ना स्थ॑ स॒हसो॑मा॒ इन्द्रा॑य
यस्ते॑ अश्व॒सनि॑र्भ॒क्षो यो गो॒सनि॒स्तस्य॑ त इ॒ष्टय॑जुष स्तु॒तसो॑मस्य श॒स्तोक्थ॒स्योप॑हूत॒स्योप॑हूतो भक्षयामि
दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि मनु॒ष्य॒कृत॒स्यैन॑सोऽव॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमस्या॒त्मकृ॑तस्यैनसोऽव॒यज॑नम॒स्येन॑स एनसोऽव॒यज॑नमसि ।
यच्चा॒हमेनो॑ वि॒द्वाँश्च॒कार॒ यच्चावि॑द्वाँ॒स्तस्य॒ सर्वस्यैन॑सोऽव॒यज॑नमसि
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सᳪ शि॒वेन॑ ।
त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम्
समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभि॒: सᳪ सू॒रिभि॑र्मघव॒न्त्सᳪ स्व॒स्त्या ।
सं ब्रह्म॑णा दे॒वकृ॑तं॒ यदस्ति॒ सं दे॒वाना॑ᳪ सुम॒तौ य॒ज्ञिया॑ना॒ᳪ स्वाहा॑
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सᳪ शि॒वेन॑ ।
त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम्
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्निधि॒पा दे॒वो अ॒ग्निः ।
त्वष्टा॒ विष्णु॑: प्र॒जया॑ सᳪररा॒णा यज॑मानाय॒ द्रवि॑णं दधात॒ स्वाहा॑
सु॒गा वो॑ देवा॒: सद॑ना अकर्म॒ य आ॑ज॒ग्मेदᳪ सव॑नं जुषा॒णाः ।
भर॑माणा॒ वह॑माना ह॒वीᳪष्य॒स्मे ध॑त्त वसवो॒ वसू॑नि॒ स्वाहा॑
याँ२ आऽव॑ह उश॒तो दे॑व दे॒वाँस्तान् प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑ ।
ज॒क्षि॒वाᳪस॑: पपि॒वाjस॑श्च॒ विश्वेऽसुं॑ घ॒र्मᳪ स्व॒राति॑ष्ठ॒तानु॒ स्वाहा॑
व॒यᳪ हि त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्न॑ग्ने॒ होता॑र॒मवृ॑णीमही॒ह ।
ऋध॑गया॒ ऋध॑गु॒ताश॑मिष्ठाः प्रजा॒नन् य॒ज्ञमुप॑ याहि वि॒द्वान्त्स्वाहा॑
देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त ।
मन॑सस्पत इ॒मं दे॑व य॒ज्ञᳪ स्वाहा॒ वाते॑ धाः
यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञपतिं॑ गच्छ॒ स्वां योनिं॑ गच्छ॒ स्वाहा॑ ।
ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाक॒: सर्व॑वीर॒स्तं जु॑षस्व॒ स्वाहा॑
माहि॑र्भू॒र्मा पृदा॑कुः ।
उ॒रुᳪ हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ ।
अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ।
नमो॒ वरु॑णाया॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाश॑:
अ॒ग्नेरनी॑कम॒प आ वि॑वेशा॒पां नपा॑त् प्रति॒रक्ष॑न्नसु॒र्य॒म् ।
दमे॑दमे स॒मिधं॑ यक्ष्यग्ने॒ प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्य॒त् स्वाहा॑
स॒मु॒द्रे ते॒ हृद॑यम॒प्स्वन्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताप॑: ।
य॒ज्ञस्य॑ त्वा यज्ञपते सू॒क्तोक्तौ॑ नमोवा॒के वि॑धेम॒ यत्स्वाहा॑
देवी॑राप ए॒ष वो॒ गर्भ॒स्तᳪ सुप्री॑त॒ᳪ सुभृ॑तं बिभृत ।
देव॑ सोमै॒ष ते॑ लो॒कस्तस्मि॒ञ्छं च॒ वक्ष्व॒ परि॑ च॒ वक्ष्व॑
अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः ।
अव॑ देवैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि ।
दे॒वाना॑ᳪ स॒मिद॑सि
एज॑तु॒ दश॑मास्यो॒ गर्भो॑ ज॒रायु॑णा स॒ह ।
यथा॒ऽयं वा॒युरेज॑ति॒ यथा॑ समु॒द्र एज॑ति ।
ए॒वा॒यं दश॑मास्यो॒ अस्र॑ज्ज॒रायु॑णा स॒ह
यस्यै॑ ते य॒ज्ञियो॒ गर्भो॒ यस्यै॒ योनि॑र्हिरण्यी ।
अङ्गा॒न्यह्रु॑ता॒ यस्य॒ तं मा॒त्रा सम॑जीगम॒ᳪ स्वाहा॑
पुरुद॒स्मो विषु॑रूप॒ इन्दु॑र॒न्तर्म॑हि॒मान॑मानञ्ज॒ धीर॑: ।
एक॑पदीं द्वि॒पदीं॑ त्रि॒पदीं॒ चतु॒ष्पदीम॒ष्टाप॑दीं॒ भुव॒नानु॑ प्रथन्ता॒ᳪ स्वाहा॑