Adhyaya 4, Verse 1
एदम॑गन्म देव॒यज॑नं पृथि॒व्या यत्र॑ दे॒वासो॒ अजु॑षन्त॒ विश्वे॑ ।
ऋ॒क्सा॒माभ्या॑ᳪ सं॒तर॑न्तो॒ यजु॑र्भी रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ।
इ॒मा आप॒: शमु॑ मे सन्तु दे॒वी रोष॑धे॒ त्राय॑स्व॒ स्वधि॑ते मैन॑ᳪ हिᳪसीः
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
एदम॑गन्म देव॒यज॑नं पृथि॒व्या यत्र॑ दे॒वासो॒ अजु॑षन्त॒ विश्वे॑ ।
ऋ॒क्सा॒माभ्या॑ᳪ सं॒तर॑न्तो॒ यजु॑र्भी रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ।
इ॒मा आप॒: शमु॑ मे सन्तु दे॒वी रोष॑धे॒ त्राय॑स्व॒ स्वधि॑ते मैन॑ᳪ हिᳪसीः
आपो॑ अ॒स्मान्मा॒तर॑: शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्व॒: पुनन्तु ।
विश्व॒j हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्य॒: शुचि॒रा पू॒त ए॑मि ।
दी॒क्षा॒त॒पसो॑स्त॒नूर॑सि॒ तां त्वा॑ शि॒वाᳪ श॒ग्मां परि॑ दधे भ॒द्रं वर्णं॒ पुष्य॑न्
म॒हीनां॒ पयो॑ऽसि वर्चो॒दा अ॑सि॒ वर्चो॑ मे देहि ।
वृ॒त्रस्या॑सि क॒नीन॑कश्चक्षु॒र्दा अ॑सि॒ चक्षु॑र्मे देहि
चि॒त्पति॑र्मा पुनातु वा॒क्पति॑र्मा पुनातु दे॒वो मा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
तस्य॑ ते पवित्रपते प॒वित्र॑पूतस्य॒ यत्का॑मः पु॒ने तच्छ॑केयम्
आ वो॑ देवास ईमहे वा॒मं प्र॑य॒त्य॒ध्व॒रे ।
आ वो॑ देवास आ॒शिषो॑ य॒ज्ञिया॑सो हवामहे
स्वाहा॑ य॒ज्ञं मन॑स॒: स्वाहो॒रोर॒न्तरि॑क्षा॒त्स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒j स्वाहा॒ वाता॒दार॑भे॒ स्वाहा॑
आकू॑त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॑ सर॑स्वत्यै पू॒ष्णेऽग्नये॒ स्वाहा॑ ।
आपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथिवी॒ उरो॑ अन्तरिक्ष ।
बृह॒स्पत॑ये ह॒विषा॑ विधेम॒ स्वाहा॑
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् ।
विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑
ऋ॑क्सा॒मयोः॒ शिल्पे॑ स्थ॒स्ते वा॒मार॑भे॒ ते मा॑ पात॒मास्य य॒ज्ञस्यो॒दृच॑: ।
शर्मा॑सि॒ शर्म॑ मे यच्छ॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪसीः
ऊर्ग॑स्याङ्गिर॒स्यूर्ण॑म्म्रदा॒ ऊर्जं॒ मयि॑ धेहि ।
सोम॑स्य नी॒विर॑सि॒ विष्णो॒: शर्मा॑सि॒ शर्म॒ यज॑मानस्येन्द्र॑स्य॒ योनि॑रसि सु॑स॒स्याः कृ॒षीस्कृ॑धि ।
उच्छ्र॑यस्व वनस्पत ऊ॒र्ध्वो मा॑ पा॒ह्यᳪह॑स॒ आस्य य॒ज्ञस्यो॒द्रच॑:
व्र॒तं कृ॑णुता॒ग्निर्ब्रह्मा॒ग्निर्य॒ज्ञो वन॒स्पति॑र्य॒ज्ञिय॑: ।
दैवीं॒ धियं॑ मनामहे सुमृडी॒काम॒भिष्ट॑ये वर्चो॒धां य॒ज्ञवा॑हसᳪ सुती॒र्था नो॑ अस॒द्वशे॑ ।
ये दे॒वा मनो॑जाता मनो॒युजो॒ दक्ष॑क्रतव॒स्ते नो॑ऽवन्तु॒ ते न॑: पान्तु॒ तेभ्य॒: स्वाहा॑
श्वा॒त्राः पी॒ता भ॑वत यू॒यमा॑पो अ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवा॑: ।
ता अ॒स्मभ्य॑मय॒क्ष्मा अ॑नमी॒वा अना॑गस॒: स्वद॑न्तु दे॒वीर॒मृता॑ ऋता॒वृध॑:
इ॒यं ते॑ य॒ज्ञिया॑ त॒नूर॒पो मु॑ञ्चामि॒ न प्र॒जाम् ।
अ॒jहो॒मुचः॒ स्वाहा॑कृताः पृथि॒वीमा वि॑शत
पृथि॒व्या सम्भ॑व
अग्ने॒ त्वᳪ सु जा॑गृहि व॒यᳪ सु म॑न्दिषीमहि ।
रक्षा॑ णो॒ अप्र॑युच्छन् प्र॒बुधे॑ न॒: पुन॑स्कृधि
पुन॒र्मन॒: पुन॒रायु॑र्म॒ आऽग॒न् पुन॑: प्रा॒णः पुन॑रा॒त्मा म॒ आऽग॒न् पुन॒श्चक्षु॒: पुन॒: श्रोत्रं॑ म॒ आऽग॑न् ।
वै॒श्वा॒न॒रो अद॑ब्धस्तनू॒पा अ॒ग्निर्न॑: पातु दुरि॒ताद॑व॒द्यात्
त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा ।
त्वं य॒ज्ञेष्वीड्य॑: ।
रास्वेय॑त्सो॒मा भूयो॑ भर दे॒वो न॑: सवि॒ता वसो॑र्दा॒ता वस्व॑दात्
ए॒षा ते॑ शुक्र त॒नूरे॒तद्वर्च॒स्तया॒ सम्भ॑व॒ भ्राजं॑ गच्छ ।
जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे
तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒न्वो॒ य॒न्त्रम॑शीय॒ स्वाहा॑ ।
शु॒क्रम॑सि च॒न्द्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि
चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी ।
सा न॒: सुप्रा॑ची॒ सुप्र॑तीच्येधि मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीतां पू॒षाऽध्व॑नस्पा॒त्विन्द्रा॒याध्य॑क्षाय
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः ।
सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोम॑ᳪ रु॒द्रस्त्वा व॑र्त्तयतु स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑
वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑ ।
बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒रा च॑के
अदि॑त्यास्त्वा मू॒र्धन्नाजि॑घर्मि देव॒यज॑ने पृथि॒व्या इडा॑यास्प॒दमा॑सि घृ॒तव॒त् स्वाहा॑ ।
अ॒स्मे र॑मस्वा॒स्मे ते॒ बन्धु॒स्त्वे रा यो॒ मे रायो॒ मा व॒यᳪ रा॒यस्पोषे॑ण॒ वियौ॑ष्म॒ तोतो॒ राय॑:
सम॑ख्ये दे॒व्या धि॒या सं दक्षि॑णयो॒रुच॑क्षसा ।
मा म॒ आयु॒: प्रमो॑षी॒र्मो अ॒हं तव॑ ।
वी॒रं वि॑देय॒ तव॑ देवि सं॒दृशि॑
ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते त्रैष्टु॑भो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दोना॒माना॒j साम्रा॑ज्यं ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतादास्मा॒को॒ऽसि शु॒क्रस्ते॒ ग्रह्यो॑ वि॒चित॑स्त्वा॒ वि चि॑न्वन्तु
अ॒भि त्यं दे॒वᳪ स॑वि॒तार॑मो॒ण्यो॒: क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वᳪ रत्न॒धाम॒भि प्रि॒यं म॒तिं क॒विम् ।
ऊ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतु॑: कृ॒पा स्व॑: ।
प्र॒जाभ्य॑स्त्वा प्र॒जास्त्वा॑ ऽनु॒प्राण॑न्तु प्र॒जास्त्वम॑नु॒प्राणि॑हि
शु॒क्रं त्वा॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न ।
स॒ग्मे ते॒ गोर॒स्मे ते॑ च॒न्द्राणि॑ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॑: पर॒मेण॑ क्रीयसे सहस्रपो॒षं पु॑षेयम्
मि॒त्रो न॒ एहि॒ सुमि॑त्रध॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्त॑ᳪ स्यो॒नः स्यो॒नम् ।
स्वान॒ भ्राजा॑ङ्घारे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते व॑: सोम॒क्रय॑णा॒स्तान्र॑क्षध्वं॒ मा वो॑ दभन्
परि॑ माग्ने॒ दुश्च॑रिताद्बाध॒स्वा मा॒ सुच॑रिते भज ।
उदायु॑षा स्वा॒युषोद॑स्थाम॒मृताँ॒२ अनु॑
प्रति॒ पन्था॑मपद्महि स्वस्ति॒गाम॑ने॒हस॑म् ।
येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑
अदि॑त्या॒स्त्वग॑स्यदि॑त्यै॒ सद॒ आसी॑द ।
अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्याः ।
आऽसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑