Adhyaya 34, Verse 1
यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑ ।
दू॒र॒ङ्ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑ ।
दू॒र॒ङ्ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु
येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीरा॑: ।
यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु
यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ ।
यस्मा॒न्न ऋ॒ते किं च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु
येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्व॑म् ।
येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु
यस्मि॒न्नृच॒: साम॒ यजू॑ᳪषि॒ यस्मि॒न् प्रति॑ष्ठिता रथना॒भावि॑वा॒राः ।
यस्मिँ॑श्चि॒त्तᳪ सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु
सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॒न्नेनी॒यते॒ऽभीशु॑भिर्वा॒जिन॑ इव ।
हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु
पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् ।
यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त्
अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शं च॑ नस्कृधि ।
क्रत्वे॒ दक्षा॑य नो हिनु॒ प्र ण॒ आयू॑ᳪषि तारिषः
अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम् ।
अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तं दा॒शुषे॒ मय॑:
सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ ।
जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः
पञ्च॑ न॒द्यः सर॑स्वती॒मपि॑ यन्ति॒ सस्रो॑तसः ।
सर॑स्वती॒ तु प॑ञ्च॒धा सो दे॒शेऽभ॑वत्स॒रित्
त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑ ।
तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः
त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॒श्च वन्द्य ।
त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेष॒ᳪ रक्ष॑माण॒स्तव॑ व्र॒ते
उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान ।
अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ इडा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट
इडा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ ।
जात॑वेदो॒ निधी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे
प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् ।
सु॒वृ॒क्तिभि॑ स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय
प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्य॒ᳪ शवसा॒नाय॒ साम॑ ।
येना॑ न॒: पूर्वे॑ पि॒तर॑: पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन्
इ॒च्छन्ति॑ त्वा सो॒म्यास॒: सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रया॑ᳪसि ।
तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः
न ते॑ दू॒रे प॑र॒मा चि॒द्रजा॒ᳪस्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम् ।
स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अग्नौ
अषा॑ढं यु॒त्सु पृत॑नासु॒ पप्रि॑ᳪ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् ।
भ॒रे॒षु॒जाᳪ सु॑क्षि॒तिᳪ सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम
सोमो॑ धे॒नुᳪ सोमो॒ अर्व॑न्तमा॒शुᳪ सोमो॑ वी॒रं क॑र्म॒ण्यं॒ ददाति ।
सा॒द॒न्यं॒ विद॒थ्य॒ᳪ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै
त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः ।
त्वमा त॑तन्थो॒र्वन्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ
दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गᳪ स॑हसावन्न॒भि यु॑ध्य ।
मा त्वा त॑न॒दीशि॑षे वी॒र्य॒स्यो॒भये॑भ्य॒: प्रचि॑कित्सा॒ गवि॑ष्टौ
अष्टौ॒ व्य॑ख्यत् क॒कुभ॑: पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् ।
हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते ।
अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति
हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृडी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
अ॒प॒सेध॑न् र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः
ये ते॒ पन्था॑: सवितः पू॒र्व्यासो॑ऽरे॒णव॒: सुकृ॑ता अ॒न्तरि॑क्षे ।
तेभि॑र्नो अ॒द्य प॒थिभि॑: सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव
उ॒भा पि॑बतमश्विनो॒भा न॒: शर्म॑ यच्छतम् ।
अ॒वि॒द्रि॒याभि॑रू॒तिभि॑:
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा॒ वृषणा मनी॒षाम् ।
अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ
द्युभि॑र॒क्तुभि॒: परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौ: