Adhyaya 3, Verse 1
स॒मिधा॒ऽग्निं दु॑वस्यत घृतैर्बो॑धय॒ताति॑थिम् ।
आस्मि॑न् ह॒व्या जु॑होतन
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
स॒मिधा॒ऽग्निं दु॑वस्यत घृतैर्बो॑धय॒ताति॑थिम् ।
आस्मि॑न् ह॒व्या जु॑होतन
सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन ।
अ॒ग्नये॑ जा॒तवे॑दसे
तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि ।
बृ॒हच्छो॑चा यविष्ठ्य
उप॑ त्वाऽग्ने ह॒विष्म॑तीर्घृ॒ताची॑र्यन्तु हर्यत ।
जु॒षस्व॑ स॒मिधो॒ मम॑
भूर्भुव॒: स्वर्द्यौरि॑व भू॒म्ना पृ॑थि॒वीव॑ वरि॒म्णा ।
तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठेऽग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे
आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पु॒रः ।
पि॒तरं॑ च प्र॒यन्त्स्व॑:
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णादपा॑न॒ती ।
व्य॑ख्यन् महि॒षो दिव॑म्
त्रि॒jशद्धाम॒ वि रा॑जति॒ वाक् प॑त॒ङ्गाय॑ धीयते ।
प्रति॒ वस्तो॒रह॒ द्युभि॑:
अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॑ ।
सूर्यो॒ ज्योति॒र्ज्योति॒: सूर्य॒: स्वाहा॑ ।
अ॒ग्निर्वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑ ।
सूर्यो॒ वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑ ।
ज्योति॒: सूर्य॒: सूर्यो॒ ज्योति॒: स्वाहा॑
स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जू रात्र्येन्द्र॑वत्या ।
जु॑षा॒णो अ॒ग्निर्वे॑तु॒ स्वाहा॑ ।
स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जूरु॒षसेन्द्र॑वत्या ।
जु॑षा॒णः सूर्यो॑ वेतु॒ स्वाहा॑
उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ ।
आ॒रे अ॒स्मे च॑ शृण्व॒ते
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् ।
अ॒पाᳪरेता॑ᳪसि जिन्वति
उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ ।
उ॒भा दा॒तारा॑वि॒षाᳪर॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम्
अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
तं जा॒नन्न॑ग्न॒ आरो॒हाथा॑ नो वर्धया र॒यिम्
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑: ।
यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॒ वि॒शेवि॑शे
अ॒स्य प्र॒त्नामनु॒ द्युत॑ᳪशु॒क्रं दु॑दुह्रे॒ अह्र॑यः ।
पय॑: सहस्र॒सामृषि॑म्
त॑नू॒पा अ॑ग्नेऽसि त॒न्वं॒ मे पाह्यायु॒र्दा अ॑ग्ने॒ स्यायु॑र्मे देहि व॑र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि ।
अग्ने॒ यन्मे॑ त॒न्वा॒ ऊ॒नं तन्म॒ आपृ॑ण
इन्धा॑नास्त्वा श॒तᳪहिमा॑ द्यु॒मन्त॒ᳪसमि॑धीमहि ।
वय॑स्वन्तो वय॒स्कृत॒ सह॑स्वन्तः सह॒स्कृत॑म् ।
अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम् ।
चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय
सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सागथा॒: समृषी॑णाᳪ स्तु॒तेन॑ ।
सं प्रि॒येण॒ धाम्ना॒ सम॒हमायु॑षा॒ सं वर्च॑सा॒ सं प्र॒जया॒ सᳪ रा॒यस्पोषे॑ण ग्मिषीय
अन्ध॒ स्थान्धो॑ वो भक्षीय॒ मह॑ स्थ॒ महो॑ वो भक्षी॒योर्ज॒ स्थोर्जं॑ वो भक्षीय रा॒यस्पोष॑ स्थ रा॒यस्पोषं॑ वो भक्षीय
रेव॑ती॒ रम॑ध्वम॒स्मिन्योना॑व॒स्मिन् गो॒ष्ठेऽस्मिंल्लो॒के॒ऽस्मिन्क्षये॑ ।
इहै॒व स्त॒ माप॑गात
स॒ᳪहि॒तासि॑ विश्वरू॒प्यू॒र्जा मावि॑श गौप॒त्येन॑ ।
उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्द्धि॒या व॒यम् ।
नमो॒ भर॑न्त॒ एम॑सि
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् ।
वर्ध॑मान॒ᳪ स्वे दमे॑
स न॑: पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व ।
सच॑स्वा नः स्व॒स्तये॑
अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्य॒: ।
वसु॑र॒ग्निर्वसुश्र॑वा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मᳪ र॒यिं दा॑:
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ।
स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अधाय॒तः सम॑स्मात्
इड॒ एह्यदि॑त॒ एहि॑ काम्या॒ एत॑ ।
मयि॑ वः काम॒धर॑णं भूयात्
सो॒मान॒ᳪ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते ।
क॒क्षीव॑न्तं॒ य औ॑शि॒जः
यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्द्ध॑नः ।
स न॑: सिषक्तु॒ यस्तु॒रः
मा न॒: शᳪसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ मर्त्य॑स्य ।
रक्षा॑ णो ब्रह्मणस्पते