Adhyaya 26, Verse 1
अ॒ग्निश्च॑ पृथि॒वी च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दो वा॒युश्चा॒न्तरि॑क्षं च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒द
आ॑दि॒त्यश्च द्यौश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒द आप॑श्च॒ वरु॑णश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दः ।
स॒प्त स॒ᳪसदो॑ अष्ट॒मी भू॑त॒साध॑नी ।
सका॑माँ॒२अध्व॑नस्कुरु सं॒ज्ञान॑मस्तु मे॒ऽमुना॑