Yajur Veda

Adhyaya 24

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Yajur Veda

Adhyaya 24, Verse 1

अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्याः कृ॒ष्णग्री॑व आग्ने॒यो र॒राटे॑ पु॒रस्ता॑त्सारस्व॒ती मे॒ष्यधस्ता॒द्धन्वो॑राश्वि॒नाव॒धोरा॑मौ बा॒ह्वोः सौ॑मापौ॒ष्णः श्या॒मो नाभ्या॑ᳪ सौर्यया॒मौ श्वे॒तश्च॑ कृ॒ष्णश्च॑ पा॒र्श्वयो॑स्त्वा॒ष्ट्रौ लो॑म॒शस॑क्थौ स॒क्थ्योर्वा॑य॒व्य॒: श्वे॒तः पुच्छ॒ इन्द्रा॑य स्वप॒स्या॒य वे॒हद्वै॑ष्ण॒वो वा॑म॒नः

Yajur Veda

Adhyaya 24, Verse 2

रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते सौ॒म्या ब॒भ्रुर॑रु॒णब॑भ्रु॒: शुक॑बभ्रु॒स्ते वा॑रु॒णाः शि॑ति॒रन्ध्रो॒ऽन्यत॑: शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते सा॑वि॒त्राः शि॑तिबा॒हुर॒न्यत॑: शितिबाहु सम॒न्तशि॑तिबाहु॒स्ते बा॑र्हस्प॒त्याः पृष॑ती क्षु॒द्रपृ॑षती स्थू॒लपृ॑षती॒ ता मै॑त्रावरु॒ण्य॒:

Yajur Veda

Adhyaya 24, Verse 3

शु॒द्धवा॑लः स॒र्वशु॑द्धवालो मणि॒वाल॒स्त आ॑श्वि॒नाः श्येत॑: श्येता॒क्षो॒ऽरु॒णस्ते रु॒द्राय॑ पशु॒पत॑ये क॒र्णा या॒मा अ॑वलि॒प्ता रौ॒द्रा नभो॑रूपाः

पार्ज॒न्याः

Yajur Veda

Adhyaya 24, Verse 4

पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी प॑ल॒क्षी ताः सा॑रस्व॒त्य॒: प्लीहा॒कर्ण॑: शुण्ठा॒कर्णो॑ऽध्यालोह॒कर्ण॒स्ते त्वा॒ष्ट्राः कृ॒ष्णग्री॑वः शिति॒कक्षो॑ऽञ्जिस॒क्थस्त ऐ॑न्द्रा॒ग्नाः कृ॒ष्णाञ्जि॒रल्पा॑ञ्जिर्म॒हाञ्जि॒स्त उ॑ष॒स्या॑:

Yajur Veda

Adhyaya 24, Verse 5

शि॒ल्पा वै॑श्वदे॒व्यो रोहि॑ण्य॒स्त्र्यव॑यो वा॒चेऽवि॑ज्ञाता॒ अदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो दे॒वानां॒ पत्नी॑भ्यः

Yajur Veda

Adhyaya 24, Verse 6

कृ॒ष्णग्री॑वा आग्ने॒याः शि॑ति॒भ्रवो॒ वसू॑ना॒ᳪ रोहि॑ता रु॒द्राणा॑ᳪ श्वे॒ता अ॑वरो॒किण॑ आदि॒त्यानां॒ नभो॑रूपाः पार्ज॒न्याः

Yajur Veda

Adhyaya 24, Verse 7

उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ॑न्द्रवैष्ण॒वा उ॑न्न॒तः शि॑तिबा॒हुः शि॑तिपृ॒ष्ठस्त ऐ॑न्द्राबार्हस्प॒त्याः शुक॑रूपा वाजि॒नाः क॒ल्माषा॑ आग्निमारु॒ताः श्या॒माः

पौ॒ष्णा:

Yajur Veda

Adhyaya 24, Verse 8

एता॑ ऐन्द्रा॒ग्ना द्वि॑रू॒पा अ॑ग्नीषो॒मीया॑ वाम॒ना अ॑न॒ड्वाह॑ आग्नावैष्ण॒वा व॒शा मै॑त्रावरु॒ण्योऽन्यत॑एन्यो मै॒त्र्य॒:

Yajur Veda

Adhyaya 24, Verse 9

कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रव॑: सौ॒म्याः श्वे॒ता वा॑य॒व्या अवि॑ज्ञाता॒ अदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो॒ दे॒वानां॒ पत्नी॑भ्यः

Yajur Veda

Adhyaya 24, Verse 10

कृ॒ष्णा भौ॒मा धू॒म्रा आ॑न्तरि॒क्षा बृ॒हन्तो॑ दि॒व्याः श॒बला॑ वैद्यु॒ताः सि॒ध्मास्ता॑र॒काः

Yajur Veda

Adhyaya 24, Verse 11

धू॒म्रान्व॑स॒न्तायाल॑भते श्वे॒तान्ग्री॒ष्माय॑ कृ॒ष्णान्व॒र्षाभ्यो॑ऽरु॒णाञ्छ॒रदे॒ पृष॑तो हेम॒न्ताय॑ पि॒शङ्गा॒ञ्छिशि॑राय

Yajur Veda

Adhyaya 24, Verse 12

त्र्यव॑यो गाय॒त्र्यै पञ्चा॑वयस्त्रि॒ष्टुभे॑ दित्य॒वाहो॒ जग॑त्यै त्रिव॒त्सा अ॑नु॒ष्टुभे॑ तुर्य॒वाह॑ उ॒ष्णिहे॑

Yajur Veda

Adhyaya 24, Verse 13

प॒ष्ठ॒वाहो॑ वि॒राज॑ उ॒क्षाणो॑ बृह॒त्या ऋ॑ष॒भाः क॒कुभे॑ऽन॒ड्वाह॑: प॒ङ्क्त्यै धे॒नवो॑ऽतिच्छन्दसे

Yajur Veda

Adhyaya 24, Verse 15

कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रव॑: सौ॒म्या उ॑पध्व॒स्ताः सा॑वि॒त्रा व॑त्सत॒र्य॒: सारस्व॒त्य॒: श्या॒माः पौ॒ष्णाः पृश्न॑यो मारु॒ता ब॑हुरू॒पा वै॑श्वदे॒वा व॒शा

द्या॑वापृथि॒वीया॑: ।।

१ ४ ।।

उ॒क्ताः स॑ञ्च॒रा एता॑ ऐन्द्रा॒ग्नाः कृ॒ष्णाः वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः

Yajur Veda

Adhyaya 24, Verse 17

अ॒ग्नयेऽनी॑कवते प्रथम॒जानाल॑भते म॒रुद्भ्य॑: सान्तप॒नेभ्य॑: सवा॒त्यान्म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॒ बष्कि॑हान्म॒रुद्भ्य॑: क्री॒डिभ्य॑: सᳪसृ॒ष्टान्म॒रुद्भ्य॒:

स्वत॑वद्भ्योऽनुसृ॒ष्टान् ।।

१ ६ ।।

उ॒क्ताः स॑ञ्च॒रा एता॑ ऐन्द्रा॒ग्नाः प्रा॑शृ॒ङ्गा मा॑हे॒न्द्रा ब॑हुरू॒पा वै॑श्वकर्म॒णाः

Yajur Veda

Adhyaya 24, Verse 18

धू॒म्रा ब॒भ्रुनी॑काशाः पितॄ॒णाᳪ सोम॑वतां ब॒भ्रवो॑ धू॒म्रनी॑काशाः पितॄ॒णां ब॑र्हि॒षदां॑ कृ॒ष्णा ब॒भ्रुनी॑काशाः पितॄ॒णाम॑ग्निष्वा॒त्तानां॑ कृ॒ष्णाः

पृष॑न्तस्त्रैयम्ब॒काः

Yajur Veda

Adhyaya 24, Verse 19

उ॒क्ताः स॑ञ्च॒रा एता॑: शुनासी॒रीया॑: श्वे॒ता वा॑य॒व्या॒: श्वे॒ताः सौ॒र्याः

Yajur Veda

Adhyaya 24, Verse 20

व॒स॒न्ताय॑ क॒पिञ्ज॑ला॒नाल॑भते ग्री॒ष्माय॑ कल॒विङ्का॑न्व॒र्षाभ्य॑स्ति॒त्तिरी॑ञ्छ॒रदे॒ वर्ति॑का हेम॒न्ताय॒ कक॑रा॒ञ्छिशि॑राय॒ विक॑करान्

Yajur Veda

Adhyaya 24, Verse 21

स॒मु॒द्राय॑ शिशु॒मारा॒नाल॑भते प॒र्जन्या॑य म॒ण्डूका॑न॒द्भ्यो मत्स्या॑न्मि॒त्राय॑ कुली॒पया॒न्वरु॑णाय ना॒क्रान्

Yajur Veda

Adhyaya 24, Verse 22

सोमा॑य ह॒ᳪसानाल॑भते वा॒यवे॑ ब॒लाका॑ इन्द्रा॒ग्निभ्यां॒ क्रुञ्चा॑न्मि॒त्राय॑ म॒द्गून्वरु॑णाय चक्रवा॒कान्

Yajur Veda

Adhyaya 24, Verse 23

अ॒ग्नये॑ कु॒टरू॒नाल॑भते॒ वन॒स्पति॑भ्य॒ उलू॑कान॒ग्नीषोमा॑भ्यां॒ चाषा॑न॒श्विभ्यां॑ म॒यूरा॑न्मि॒त्रावरु॑णाभ्यां क॒पोता॑न्

Yajur Veda

Adhyaya 24, Verse 24

सोमा॑य ल॒बानाल॑भते॒ त्वष्ट्रे॑ कौली॒कान्गो॑षा॒दीर्दे॒वानां॒ पत्नी॑भ्यः कु॒लीका॑ देवजा॒मिभ्यो॒ऽग्नये॑ गृ॒हप॑तये पारु॒ष्णान्

Yajur Veda

Adhyaya 24, Verse 25

अह्ने॑ पा॒राव॑ता॒नाल॑भते॒ रात्र्यै॑ सीचा॒पूर॑होरा॒त्रयो॑: स॒न्धिभ्यो॑ ज॒तूर्मासे॑भ्यो दात्यौ॒हान्त्सं॑वत्स॒राय॑ मह॒तः सु॑प॒र्णान्

Yajur Veda

Adhyaya 24, Verse 26

भूम्या॑ आ॒खूनाल॑भते॒ऽन्तरि॑क्षाय पा॒ङ्क्त्रान्दि॒वे कशा॑न्दि॒ग्भ्यो न॑कु॒लान्बभ्रु॑कानवान्तरदि॒शाभ्य॑:

Yajur Veda

Adhyaya 24, Verse 27

वसु॑भ्य॒ ऋश्या॒नाल॑भते रु॒द्रेभ्यो॒ रुरू॑नादि॒त्येभ्यो॒ न्यङ्कू॒॒न्विश्वे॑भ्यो दे॒वेभ्य॑: पृष॒तान्त्सा॒ध्येभ्य॑: कुलु॒ङ्गान्

Yajur Veda

Adhyaya 24, Verse 28

ईशा॑नाय॒ पर॑स्वत॒ आल॑भते मि॒त्राय॑ गौ॒रान्वरु॑णाय महि॒षान्बृह॒स्पत॑ये गव॒याँस्त्वष्ट्र॒ उष्ट्रा॑न्

Yajur Veda

Adhyaya 24, Verse 29

प्र॒जाप॑तये॒ पुरु॑षान्ह॒स्तिन॒ आल॑भते वा॒चे प्लुषीँ॒श्चक्षु॑षे म॒शका॒ञ्छ्रोत्रा॑य॒ भृङ्गा॑:

Yajur Veda

Adhyaya 24, Verse 30

प्र॒जाप॑तये च वा॒यवे॑ च गोमृ॒गो वरु॑णायार॒ण्यो मे॒षो य॒माय॒ कृष्णो॑ मनुष्यरा॒जाय॑ म॒र्कट॑: शार्दू॒लाय॑ रो॒हिदृ॑ष॒भाय॑ गव॒यी क्षि॑प्रश्ये॒नाय॒ वर्ति॑का॒ नील॑ङ्गो॒: कृमि॑: समु॒द्राय॑ शिशु॒मारो॑ हि॒मव॑ते ह॒स्ती

Yajur Veda

Adhyaya 24, Verse 31

म॒युः प्रा॑जाप॒त्य उ॒लो ह॒लिक्ष्णो॑ वृषद॒ᳪशस्ते धा॒त्रे दि॒शां क॒ङ्को धुङ्क्षा॑ग्ने॒यी क॑ल॒विङ्को॑ लोहिता॒हिः पु॑ष्करसा॒दस्ते त्वा॒ष्ट्रा वा॒चे क्रुञ्च॑:

Yajur Veda

Adhyaya 24, Verse 32

सोमा॑य कुलु॒ङ्ग आ॑र॒ण्योऽजो न॑कु॒लः शका॒ ते पौ॒ष्णाः क्रो॒ष्टा मा॒योरिन्द्र॑स्य गौरमृ॒गः पि॒द्वो न्यङ्कु॑: कक्क॒टस्तेऽनु॑मत्यै प्रति॒श्रुत्का॑यै

चक्रवा॒कः