Adhyaya 23, Verse 1
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒: सूर्य॑स्ते महि॒मा ।
यस्तेऽह॑न्त्संवत्स॒रे म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॑ वा॒याव॒न्तरि॑क्षे महि॒मा स॑म्ब॒भूव॒ यस्ते॑ दि॒वि सूर्ये॑ महि॒मा स॑म्ब॒भूव॒ तस्मै॑ ते महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ दे॒वेभ्य॑:
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॑श्च॒न्द्रमा॑स्ते महि॒मा ।
यस्ते॒ रात्रौ॑ संवत्स॒रे म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॑ पृथि॒व्याम॒ग्नौ म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॒ नक्ष॑त्रेषु च॒न्द्रम॑सि महि॒मा स॑म्ब॒भूव॒ तस्मै॑ ते महि॒म्ने प्र॒जाप॑तये दे॒वेभ्य॒: स्वाहा॑
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुष॑: ।
रोच॑न्ते रोच॒ना दि॒वि
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ ।
शोणा॑ धृ॒ष्णू नृ॒साह॑सा
यद्वातो॑ अ॒पो अ॑गनीगन्प्रि॒यामिन्द्र॑स्य त॒न्व॒म् ।
ए॒तᳪ स्तो॑तर॒नेन॑ प॒था पुन॒रश्व॒माव॑र्तयासि नः
वस॑वस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॑ञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा ऽऽदि॒त्यास्त्वा॑ञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा ।
भूर्भुव॒: स्वर्ला॒जी३ञ्छा॒ची३न्यव्ये॒ गव्य॑ ए॒तदन्न॑मत्त देवा ए॒तदन्न॑मद्धि प्रजापते
कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुन॑: ।
किᳪ स्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत्
सूर्य॑ एका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुन॑: ।
अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत्
का स्वि॑दासीत्पू॒र्वचि॑त्ति॒: किᳪ स्वि॑दासीद् बृ॒हद्वय॑: ।
का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला
द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद् बृ॒हद्वय॑: ।
अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला
वा॒युष्ट्वा॑ पच॒तैर॑व॒त्वसि॑तग्रीव॒श्छागै॑र्न्य॒ग्रोध॑श्चम॒सैः श॑ल्म॒लिर्वृद्ध्या॑ ।
ए॒ष स्य रा॒थ्यो वृषा॑ प॒ड्भिश्च॒तुर्भि॒रेद॑गन्ब्र॒ह्मा कृ॑ष्णश्च नोऽवतु॒ नमो॒ऽग्नये॑
सᳪशि॑तो र॒श्मिना॒ रथ॒: सᳪशि॑तो र॒श्मिना॒ हय॑: ।
सᳪशि॑तो अ॒प्स्व॒प्सु॒जा ब्र॒ह्मा सोम॑पुरोगवः
स्व॒यं वा॑जिँस्त॒न्वं॒ कल्पयस्व स्व॒यं य॑जस्व स्व॒यं जु॑षस्व ।
म॒हि॒मा ते॒ऽन्येन॒ न स॒न्नशे॑
न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ इदे॑षि प॒थिभि॑: सु॒गेभि॑: ।
यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु
अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँल्लो॒कम॑जय॒द्यस्मि॑न्न॒ग्निः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ।
वा॒युः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँल्लो॒कम॑जय॒द्यस्मि॑न्वा॒युः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ।
सूर्य॑: प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँल्लो॒कम॑जय॒द्यस्मि॒न्त्सूर्य॒: स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः
प्रा॒णाय॒ स्वाहा॑ ऽपा॒नाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑ ।
अम्बे॒ अम्बि॒केऽम्बा॑लिके॒ न मा॑ नयति॒ कश्च॒न ।
सस॑स्त्यश्व॒कः सुभ॑द्रिकां काम्पीलवा॒सिनी॑म्
ग॒णानां॑ त्वा ग॒णप॑तिᳪ हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिᳪ हवामहे नि॒धीनां॑ त्वा॑ निधि॒पति॑ᳪ हवामहे वसो मम ।
आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम्
ता उ॒भौ च॒तुर॑: प॒दः सं॒प्रसा॑रयाव स्व॒र्गे लो॒के प्रोर्णु॑वाथां॒ वृषा॑ वा॒जी रे॑तो॒धा रेतो॑ दधातु
उत्स॑क्थ्या॒ अव॑ गु॒दं धे॑हि॒ सम॒ञ्जिं चा॑रया वृषन् ।
य स्त्री॒णां जी॑व॒भोज॑नः
य॒कास॒कौ श॑कुन्ति॒काऽऽहल॒गिति॒ वञ्च॑ति ।
आह॑न्ति ग॒भे पसो॒ निग॑ल्गलीति॒ धार॑का
य॒को॒ऽस॒कौ श॑कुन्त॒क आ॒हल॒गिति॒ वञ्च॑ति ।
विव॑क्षत इव ते॒ मुख॒मध्व॑र्यो॒ मा न॒स्त्वम॒भि भा॑षथाः
मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ वृ॒क्षस्य॑ रोहतः ।
प्रति॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तᳪसयत्
मा॒ता च॑ ते पि॒ता च॒ तेऽग्रे॑ वृ॒क्षस्य॑ क्रीडतः ।
विव॑क्षत इव ते॒ मुखं॒ ब्रह्म॒न्मा त्वं व॑दो ब॒हु
ऊ॒र्ध्वमे॑ना॒मुच्छ्रा॑पय गि॒रौ भा॒रᳪ हर॑न्निव ।
अथा॑स्यै॒ मध्य॑मेधताᳪ शी॒ते वाते॑ पु॒नन्नि॑व
ऊ॒र्ध्वमे॑न॒मुच्छ्र॑यताद्गि॒रौ भा॒रᳪ हर॑न्निव ।
अथा॑स्य॒ मध्य॑मेजतु शी॒ते वाते॑ पु॒नन्नि॑व
यद॑स्या अᳪहु॒भेद्या॑: कृ॒धु स्थू॒लमु॒पात॑सत् ।
मु॒ष्काविद॑स्या एजतो गोश॒फे श॑कु॒लावि॑व
यद्दे॒वासो॑ ल॒लाम॑गुं॒ प्र वि॑ष्टी॒मिन॒मावि॑षुः ।
स॒क्थ्ना दे॑दिश्यते॒ नारी॑ स॒त्यस्या॑क्षि॒भुवो॒ यथा॑
यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं प॒शु मन्य॑ते ।
शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति