Adhyaya 21, Verse 1
इ॒मं मे॑ वरुण श्रु॒धी हव॑म॒द्या च॑ मृडय ।
त्वाम॑स्व॒स्युरा च॑के
Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.
इ॒मं मे॑ वरुण श्रु॒धी हव॑म॒द्या च॑ मृडय ।
त्वाम॑स्व॒स्युरा च॑के
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑: ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शᳪस॒ मा न॒ आयु॒: प्र मो॑षीः
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडो व॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒: शोशु॑चानो॒ विश्वा॒ द्वेषा॑ᳪसि॒ प्र मु॑मुग्ध्य॒स्मत्
स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॒ष्टौ ।
अव॑ यक्ष्व नो॒ वरु॑ण॒ᳪ ररा॑णो वी॒हि मृ॑डी॒क सु॒हवो॑ न एधि
म॒हीमू॒ षु मा॒तर॑ᳪ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम ।
तु॒वि॒क्ष॒त्राम॒जर॑न्तीमुरू॒चीᳪ सु॒शर्मा॑ण॒मदि॑तिᳪ सु॒प्रणी॑तिम्
सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हस॑ᳪ सु॒शर्मा॑ण॒मदि॑ति सु॒प्रणी॑तिम् ।
दैवीं॒ नाव॑ᳪ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑
सु॒नाव॒मा रु॑हेय॒मस्र॑वन्ती॒मना॑गसम् ।
श॒तारि॑त्राᳪ स्व॒स्तये॑
आ नो॑ मित्रावरुणा घृतै॒र्गव्यू॑तिमुक्षतम् ।
मध्वा॒ रजा॑ᳪसि सुक्रतू
प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ ।
आ मा॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा
शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः ।
ज॒म्भय॒न्तोऽहिं॒ वृक॒ᳪ रक्षा॑ᳪसि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः
वाजे॑-वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।
अ॒स्य मध्व॑: पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानै॑:
समि॑द्धो अ॒ग्निः स॒मिधा॒ सुस॑मिद्धो॒ वरे॑ण्यः ।
गा॒य॒त्री छन्द॑ इन्द्रि॒यं त्र्यविर्गौ॒र्वयो॑ दधुः
तनू॒नपा॒च्छुचि॑व्रतस्तनू॒पाश्च॒ सर॑स्वती ।
उ॒ष्णिहा॒ छन्द॑ इन्द्रि॒यं दि॑त्य॒वाड्गौर्वयो॑ दधुः
इडा॑भिर॒ग्निरीड्य॒: सोमो॑ दे॒वो अम॑र्त्यः ।
अ॒नु॒ष्टुप्छन्द॑ इन्द्रि॒यं पञ्चा॑विर्गौ॒र्वयो॑ दधुः
सु॒ब॒र्हिर॒ग्निः पू॑ष॒ण्वान्त्स्ती॒र्णब॑र्हि॒रम॑र्त्यः ।
बृ॒ह॒ती छन्द॑ इन्द्रि॒यं त्रि॑व॒त्सो गौर्वयो॑ दधुः
दुरो॑ दे॒वीर्दिशो॑ म॒हीर्ब्र॒ह्मा दे॒वो बृह॒स्पति॑: ।
प॒ङ्क्तिश्छन्द॑ इ॒हेन्द्रि॒यं तु॑र्य॒वाड्गौ॒र्वयो॑ दधुः
उ॒षे य॒ह्वी सु॒पेश॑सा॒ विश्वे॑ दे॒वा अम॑र्त्याः ।
त्रि॒ष्टुप्छन्द॑ इ॒हेन्द्रि॒यं प॑ष्ठ॒वाड्गौ॒र्वयो॑ दधुः
दैव्या॒ होता॑रा भि॒षजेन्द्रे॑ण स॒युजा॑ यु॒जा ।
जग॑ती॒ छन्द॑ इन्द्रि॒यम॑न॒ड्वान्गौ॒र्वयो॑ दधुः
ति॒स्र इडा॒ सर॑स्वती॒ भार॑ती म॒रुतो॒ विश॑: ।
वि॒राट् छन्द॑ इ॒हेन्द्रि॒यं धे॒नुर्गौर्न वयो॑ दधुः
त्वष्टा॑ तु॒रीपो॒ अद्भु॑त इन्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना ।
द्विप॑दा॒ छन्द॑ इन्द्रि॒यमु॒क्षा गौ॒र्न वयो॑ दधुः
श॒मि॒ता नो॒ वन॒स्पति॑: सवि॒ता प्र॑सु॒वन् भग॑म् ।
क॒कुप्छन्द॑ इ॒हेन्द्रि॒यं व॒शा वे॒हद्वयो॑ दधुः
स्वाहा॑ य॒ज्ञं वरु॑णः सुक्ष॒त्रो भे॑ष॒जं क॑रत् ।
अति॑च्छन्दा इन्द्रि॒यं बृ॒हदृ॑ष॒भो गौर्वयो॑ दधुः
व॒स॒न्तेन॑ ऋ॒तुना॑ दे॒वा वस॑ववस्त्रि॒वृता॑ स्तु॒ताः ।
र॒थ॒न्त॒रेण॒ तेज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः
ग्री॒ष्मेण॑ ऋ॒तुना॑ दे॒वा रु॒द्राः प॑ञ्चद॒शे स्तु॒ताः ।
बृ॒ह॒ता यश॑सा॒ बल॑ᳪ ह॒विरिन्द्रे॒ वयो॑ दधुः
व॒र्षाभि॑रृ॒तुना॑ऽऽदि॒त्या स्तोमे॑ सप्तद॒शे स्तु॒ताः ।
वै॒रू॒पेण॑ वि॒शौज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः
शा॒र॒देन॑ ऋ॒तुना॑ दे॒वा ए॑कवि॒ᳪश ऋ॒भव॑ स्तु॒ताः ।
वै॒रा॒जेन॑ श्रि॒या श्रिय॑ᳪ ह॒विरिन्द्रे॒ वयो॑ दधुः
हे॒म॒न्तेन॑ ऋ॒तुना॑ दे॒वास्त्रि॑ण॒वे म॒रुत॑ स्तु॒ताः ।
बले॑न॒ शक्व॑री॒: सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुः
शै॒शि॒रेण॑ ऋ॒तुना॑ दे॒वास्त्र॑यस्त्रि॒ᳪशेऽमृता॑ स्तु॒ताः ।
स॒त्येन॑ रे॒वती॑: क्ष॒त्रᳪ ह॒विरिन्द्रे॒ वयो॑ दधुः
होता॑ यक्षत्स॒मिधा॒ऽग्निमि॒डस्प॒देऽश्विनेन्द्र॒ᳪ सर॑स्वतीम॒जो धू॒म्रो न गो॒धूमै॒: कुव॑लैर्भेष॒जं मधु॒ शष्पै॒र्न तेज॑ इन्द्रि॒यं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॑र्यज
होता॑ यक्ष॒त्तनू॒नपा॒त्सर॑स्वती॒मवि॑र्मे॒षो न भे॑ष॒जं प॒था मधु॑मता॒ भर॑न्न॒श्विनेन्द्रा॑य वी॒र्यं बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भि॒: पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑