Adhyaya 20, Verse 1
क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑रसि ।
मा त्वा॑ हिᳪसी॒न्मा मा॑ हिᳪसीः
Containing 89 sacred Sanskrit shlokas with multi-author commentaries and translations.
क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑रसि ।
मा त्वा॑ हिᳪसी॒न्मा मा॑ हिᳪसीः
नि ष॑साद घृ॒तव्र॑तो॒ वरु॑णः प॒स्त्यास्वा ।
साम्रा॑ज्याय सु॒क्रतु॑: ।
मृ॒त्योः पा॑हि वि॒द्योत्पा॑हि
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
अ॒श्विनोर्भैष॑ज्येन॒ तेज॑से ब्रह्मवर्च॒साया॒भि षि॑ञ्चामि॒ सर॑स्वत्यै॒ भैष॑ज्येन वी॒र्या॒या॒न्नाद्या॑या॒भि षि॑ञ्चा॒मीन्द्र॑स्येन्द्रि॒येण॒ बला॑य श्रियै॒ यश॑से॒ऽभि षि॑ञ्चामि
को॑ऽसि कत॒मो॒ऽसि॒ कस्मै॑ त्वा॒ काय॑ त्वा ।
सुश्लो॑क॒ सुम॑ङ्गल॒ सत्य॑राजन्
शिरो॑ मे॒ श्रीर्यशो॒ मुखं॒ त्विषि॒: केशा॑श्च॒ श्मश्रू॑णि ।
राजा॑ मे प्रा॒णो अ॒मृत॑ᳪ स॒म्राट् चक्षु॑र्वि॒राट् श्रोत्र॑म्
जि॒ह्वा मे॑ भ॒द्रं वाङ्महो॒ मनो॑ म॒न्युः स्व॒राड् भाम॑: ।
मोदा॑: प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि मि॒त्रं मे॒ सह॑:
बा॒हू मे॒ बल॑मिन्द्रि॒यᳪ हस्तौ॑ मे॒ कर्म॑ वी॒र्य॒म् ।
आ॒त्मा क्ष॒त्रमुरो॒ मम॑
पृ॒ष्ठीर्मे॑ रा॒ष्ट्रमु॒दर॒मᳪसौ॑ ग्री॒वाश्च॒ श्रोणी॑ ।
ऊ॒रू अ॑र॒त्नी जानु॑नी॒ विशो॒ मेऽङ्गा॑नि स॒र्वत॑:
नाभि॑र्मे चि॒त्तं वि॒ज्ञानं॑ पा॒युर्मेऽप॑चितिर्भ॒सत् ।
आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे॒ भग॒: सौभा॑ग्यं॒ पस॑: ।
जङ्घा॑भ्यां प॒द्भ्यां धर्मो॑ऽस्मि वि॒शि राजा॒ प्रति॑ष्ठितः
प्रति॑ क्ष॒त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे प्रत्यश्वे॑षु॒ प्रति॑ तिष्ठामि॒ गोषु॑ ।
प्रत्यङ्गे॑षु॒ प्रति॑ तिष्ठाम्या॒त्मन् प्रति॑ प्रा॒णेषु॒ प्रति॑ तिष्ठामि पु॒ष्टे प्रति॒ द्यावा॑पृथि॒व्योः प्रति॑ तिष्ठामि य॒ज्ञे ।।
१ ० ।।
त्र॒या दे॒वा एका॑दश त्रयस्त्रि॒ᳪशाः सु॒राध॑सः ।
बृह॒स्पति॑पुरोहिता दे॒वस्य॑ सवि॒तुः स॒वे ।
दे॒वा दे॒वैर॑वन्तु मा
प्र॒थ॒मा द्वि॒तीयै॑र्द्वि॒तीया॑स्तृ॒तीयै॑स्तृ॒तीया॑: स॒त्येन॑ स॒त्यं य॒ज्ञेन॑ य॒ज्ञो यजु॑र्भि॒र्यजू॑ᳪषि॒ साम॑भि॒: सामा॑न्यृ॒ग्भिरृच॑: पुरोऽनुवा॒क्या॒भिः पुरोऽनुवा॒क्या॒ या॒ज्या॒भिर्या॒ज्या॒ वषट्का॒रैर्व॑षट्का॒रा आहु॑तिभि॒राहु॑तयो मे॒ कामा॒न्त्सम॑र्धयन्तु॒ भूः स्वाहा॑
लोमा॑नि॒ प्रय॑ति॒र्मम॒ त्वङ्म॒ आन॑ति॒राग॑तिः ।
मा॒ᳪसं म॒ उप॑नति॒र्वस्वस्थि॑ म॒ज्जा म॒ आन॑तिः
यद्दे॑वा देव॒हेड॑नं॒ देवा॑सश्चकृ॒मा व॒यम् ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वᳪह॑सः
यदि॒ दिवा॒ यदि॒ नक्त॒मेना॑ᳪसि चकृ॒मा व॒यम् ।
वा॒युर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वᳪह॑सः
यदि॒ जाग्र॒द्यदि॒ स्वप्न॒ एना॑ᳪसि चकृ॒मा व॒यम् ।
सूर्यो॑ मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वᳪह॑सः
यद्ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॒ये ।
यच्छू॒द्रे यदर्ये॒ यदेन॑श्चकृ॒मा व॒यं यदेक॒स्याधि॒ धर्म॑णि॒ तस्या॑व॒यज॑नमसि
यदापो॑ अ॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ।
अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः ।
अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽय॒क्ष्यव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि
स॑मु॒द्रे ते॒ हृद॑यम॒प्स्वन्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताप॑: ।
सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः
द्रु॒प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒तो मला॑दिव ।
पू॒तं प॒वित्रे॑णे॒वाज्य॒माप॑: शुन्धन्तु मैन॑सः
उद्व॒यं तम॑स॒स्परि॒ स्व: पश्य॑न्त॒ उत्त॑रम् ।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्
अ॒पो अ॒द्यान्व॑चारिष॒ᳪ रसे॑न॒ सम॑सृक्ष्महि ।
पय॑स्वानग्न॒ आऽग॑मं॒ तं मा॒ सᳪ सृ॑ज॒ वर्च॑सा प्र॒जया॑ च॒ धने॑न च
एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ।
स॒माव॑वर्ति पृथि॒वी समु॒षाः समु॒ सूर्य॑: ।
समु॒ विश्व॑मि॒दं जग॑त् ।
वै॒श्वा॒न॒रज्यो॑तिर्भूयासं वि॒भून् कामा॒न् व्य॒श्नवै॒ भूः स्वाहा॑
अ॒भ्या द॑धामि स॒मिध॒मग्ने॑ व्रतपते॒ त्वयि॑ ।
व्र॒तं च॑ श्र॒द्धां चोपै॑मी॒न्धे त्वा॑ दीक्षि॒तो अ॒हम्
यत्र॒ ब्रह्म॑ च क्ष॒त्रं च॑ स॒म्यञ्चो॒ चर॑तः स॒ह ।
तँल्लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ दे॒वाः स॒हाग्निना॑
यत्रेन्द्र॑श्च वा॒युश्च॑ स॒म्यञ्चो॒ चर॑तः स॒ह ।
तँल्लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ से॒दिर्न वि॒द्यते॑
अ॒ᳪशुना॑ ते अ॒ᳪशुः पृ॑च्यतां॒ परु॑षा॒ परु॑: ।
ग॒न्धस्ते॒ सोम॑मवतु॒ मदा॑य॒ रसो॒ अच्यु॑तः
सि॒ञ्चन्ति॒ परि॑ षिञ्च॒न्त्युत्सि॑ञ्चन्ति पु॒नन्ति॑ च ।
सुरा॑यै ब॒भ्र्वै॒ मदे॑ कि॒न्त्वो व॑दति कि॒न्त्वः
धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् ।
इन्द्र॑ प्रा॒तर्जु॑षस्व नः
बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् ।
येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि
अध्व॑र्यो॒ अद्रि॑भिः सु॒तᳪ सोमं॑ प॒वित्र॒ आ न॑य ।
पु॒ना॒हीन्द्रा॑य॒ पात॑वे