Adhyaya 19, Verse 1
स्वा॒द्वीं त्वा॑ स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म॒मृते॑न ।
मधु॑मतीं॒ मधु॑मता सृ॒जामि॒ सᳪ सोमे॑न ।
सोमो॑ऽस्य॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व
Containing 95 sacred Sanskrit shlokas with multi-author commentaries and translations.
स्वा॒द्वीं त्वा॑ स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म॒मृते॑न ।
मधु॑मतीं॒ मधु॑मता सृ॒जामि॒ सᳪ सोमे॑न ।
सोमो॑ऽस्य॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व
परी॒तो षि॑ञ्च॒ता सु॒तᳪ सोमो॒ य उ॑त्त॒मᳪ ह॒विः ।
द॒ध॒न्वा यो नर्यो॑ अ॒प्स्वन्तरा सु॒षाव॒ सोम॒मद्रि॑भिः
वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्क्सोमो॒ अति॑द्रुतः ।
इन्द्र॑स्य॒ युज्य॒: सखा॑
पु॒नाति॑ ते परि॒स्रुत॒ᳪ सोम॒ᳪ सूर्य॑स्य दुहि॒ता ।
वारे॑ण॒ शश्व॑ता॒ तना॑
ब्रह्म॑ क्ष॒त्रं प॑वते॒ तेज॑ इन्द्रि॒यᳪ सुर॑या॒ सोम॑: सु॒त आसु॑तो॒ मदा॑य ।
शु॒क्रेण॑ देव दे॒वता॑: पिपृग्धि॒ रसे॒नान्नं॒ यज॑मानाय धेहि
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ उक्तिं॒ यज॑न्ति ।
उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ ए॒ष ते॒ योनि॒स्तेज॑से त्वा वी॒र्या॒य त्वा॒ बला॑य त्वा
नाना॒ हि वां॑ दे॒वहि॑त॒ᳪ सद॑स्कृ॒तं मा सᳪ सृ॑क्षाथां पर॒मे व्यो॑मन् ।
सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒ष मा मा॑ हिᳪसी॒: स्वां योनि॑मावि॒शन्ती॑
उ॒प॒या॒मगृ॑हीतो॒ऽस्याश्वि॑नं॒ तेज॑: सारस्व॒तं वी॒र्य॒मै॒न्द्रं बल॑म् ।
ए॒ष ते॒ योनि॒र्मोदा॑य त्वा ऽऽन॒न्दाय॑ त्वा॒ मह॑से त्वा
तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि वी॒र्य॒मसि वी॒र्यं मयि॑ धेहि बल॑मसि॒ बलं॒ मयि॑ धे॒ह्योजो॒ऽस्योजो॒ मयि॑ धेहि म॒न्युर॑सि म॒न्युं मयि॑ धेहि॒ सहो॑ऽसि॒ सहो॒ मयि॑ धेहि
या व्या॒घ्रं विषू॑चिकोभौ॒ वृकं॑ च॒ रक्ष॑ति ।
श्ये॒नं प॑त॒त्रिण॑ᳪ सि॒ᳪहᳪ सेमं पा॒त्वᳪह॑सः
यदा॑पि॒पेष॑ मा॒तरं॑ पु॒त्रः प्रमु॑दितो॒ धय॑न् ।
ए॒तत्तद॑ग्ने अनृ॒णो भ॑वा॒म्यह॑तौ पि॒तरौ॒ मया॑ ।
स॒म्पृच॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त वि॒पृच॑ स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त
दे॒वा य॒ज्ञम॑तन्वत भेष॒जं भि॒षजा॒ऽश्विना॑ ।
वा॒चा सर॑स्वती भि॒षगिन्द्रा॑येन्द्रि॒याणि॒ दध॑तः
दी॒क्षायै॑ रू॒पᳪ शष्पा॑णि प्राय॒णीय॑स्य॒ तोक्मा॑नि ।
क्र॒यस्य॑ रू॒पᳪ सोम॑स्य ला॒जाः सो॑मा॒ᳪशवो॒ मधु॑
आ॒ति॒थ्य॒रू॒पं मास॑रं महावी॒रस्य॑ न॒ग्नहु॑: ।
रू॒पमु॑प॒सदा॑मे॒तत्ति॒स्रो रात्री॒: सुराऽऽसु॑ता
सोम॑स्य रू॒पं क्री॒तस्य॑ परि॒स्रुत्परि॑ षिच्यते ।
अ॒श्विभ्यां॑ दु॒ग्धं भे॑ष॒जमिन्द्रा॑यै॒न्द्रᳪ सर॑स्वत्या
आ॒स॒न्दी रू॒पᳪ रा॑जासन्द्यै॒ वेद्यै॑ कु॒म्भी सु॑रा॒धानी॑ ।
अन्त॑र उत्तरवे॒द्या रू॒पं का॑रोत॒रो भि॒षक्
वेद्या॒ वेदि॒: समा॑प्यते ब॒र्हिषा॑ ब॒र्हिरि॑न्द्रि॒यम् ।
यूपे॑न॒ यूप॑ आप्यते॒ प्रणी॑तो अ॒ग्निर॒ग्निना॑
ह॒वि॒र्धानं॒ यद॒श्विनाऽऽग्नी॑ध्रं॒ यत्सर॑स्वती ।
इन्द्रा॑यै॒न्द्रᳪ सद॑स्कृ॒तं प॑त्नी॒शालं॒ गार्ह॑पत्यः
प्रै॒षेभि॑: प्रै॒षाना॑प्नोत्या॒प्रीभि॑रा॒प्रीर्य॒ज्ञस्य॑ ।
प्र॒या॒जेभि॑रनुया॒जान् व॑षट्का॒रेभि॒राहु॑तीः
प॒शुभि॑: प॒शूना॑प्नोति पुरो॒डाशै॑र्ह॒वीᳪष्या ।
छन्दो॑भिः सामिधे॒नीर्या॒ज्या॒भिर्वषट्का॒रान्
धा॒नाः क॑र॒म्भः सक्त॑वः परीवा॒पः पयो॒ दधि॑ ।
सोम॑स्य रू॒पᳪ ह॒विष॑ आ॒मिक्षा॒ वाजि॑नं॒ मधु॑
धा॒नाना॑ᳪ रू॒पं कुव॑लं परीवा॒पस्य॑ गो॒धूमा॑: ।
सक्तू॑नाᳪ रू॒पं बद॑रमुप॒वाका॑: कर॒म्भस्य॑
पय॑सो रू॒पं यद्यवा॑ द॒ध्नो रू॒पं क॒र्कन्धू॑नि ।
सोम॑स्य रू॒पं वाजि॑नᳪ सौ॒म्यस्य॑ रू॒पमा॒मिक्षा॑
आ श्रा॑व॒येति॑ स्तो॒त्रिया॑: प्रत्याश्रा॒वो अनु॑रूपः ।
यजेति॑ धाय्यारू॒पं प्र॑गा॒था ये॑यजाम॒हाः
अ॒र्ध॒ – ऋ॒चैरु॒क्थाना॑ᳪ रू॒पं प॒दैरा॑प्नोति नि॒विद॑: ।
प्र॒ण॒वै: श॒स्त्राणा॑ᳪ रू॒पं पय॑सा॒ सोम॑ आप्यते
अ॒श्विभ्यां॑ प्रातः सव॒नमिन्द्रे॑णै॒न्द्रं माध्यं॑न्दिनम् ।
वै॒श्व॒दे॒वᳪ सर॑स्वत्या तृ॒तीय॑मा॒प्तᳪ सव॑नम्
वा॒य॒व्यै॒र्वाय॒व्या॒न्याप्नोति॒ सते॑न द्रोणकल॒शम् ।
कु॒म्भीभ्या॑मम्भृ॒णौ सु॒ते स्था॒लीभि॑ स्था॒लीरा॑प्नोति
यजु॑र्भिराप्यन्ते॒ ग्रहा॒ ग्रहै॒ स्तोमा॑श्च॒ विष्टु॑तीः ।
छन्दो॑भिरुक्थाश॒स्त्राणि॒ साम्ना॑वभृ॒थ आ॑प्यते
इडा॑भिर्भ॒क्षाना॑प्नोति सूक्तवा॒केना॒शिष॑: ।
शं॒युना॑ पत्नीसंया॒जान्त्स॑मिष्टय॒जुषा॑ स॒ᳪस्थाम्
व्र॒तेन॑ दी॒क्षामा॑प्नोति दी॒क्षया॑ऽऽप्नोति॒ दक्षि॑णाम् ।
दक्षि॑णा श्र॒द्धामा॑प्नोति श्र॒द्धया॑ स॒त्यमा॑प्यते