Yajur Veda

Adhyaya 15

Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.

Yajur Veda

Adhyaya 15, Verse 1

अग्ने॑ जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् प्रत्यजा॑तान् नुद जातवेदः ।

अधि॑ नो ब्रूहि सु॒मना॒ अहे॑डँ॒स्तव॑ स्याम॒ शर्मँ॑स्त्रि॒वरू॑थ उ॒द्भौ

Yajur Veda

Adhyaya 15, Verse 2

सह॑सा जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् प्रत्यजा॑ताञ्जातवेदो नुदस्व ।

अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यᳪ स्या॑म॒ प्र णु॑दा नः स॒पत्ना॑न्

Yajur Veda

Adhyaya 15, Verse 3

षो॒ड॒शी स्तोम॒ ओजो॒ द्रवि॑णं चतुश्चत्वारि॒ᳪश स्तोमो॒ वर्चो॒ द्रवि॑णम् ।

अ॒ग्नेः पुरी॑षम॒स्यप्सो॒ नाम॒ तां त्वा॒ विश्वे॑ अ॒भि गृ॑णन्तु दे॒वाः ।

स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णा य॑जस्व

Yajur Veda

Adhyaya 15, Verse 4

एव॒श्छन्दो॒ वरि॑व॒श्छन्द॑: श॒म्भूश्छन्द॑: परि॒भूश्छन्द॑ आ॒च्छच्छन्दो॒ मन॒श्छन्दो॒

व्यच॒श्छन्द॒: सिन्धु॒श्छन्द॑: समु॒द्रश्छन्द॑:सरि॒रं छन्द॑: क॒कुप्छन्द॑स्त्रिक॒कुप्छन्द॑: का॒व्यं छन्दो॒

अङ्कु॒॒पं छन्दो॒ ऽक्षर॑पङ्क्ति॒श्छन्द॑: प॒दप॑ङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्द॑: क्षु॒रो भ्रज॒श्छन्द॑:

Yajur Veda

Adhyaya 15, Verse 5

आ॒च्छच्छन्द॑: प्र॒च्छच्छन्द॑: सं॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथन्त॒रञ्छन्दो॑ निका॒यश्छन्दो॑

विवधश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छन्द॑: स॒ᳪस्तुप्छन्दो॑ ऽनु॒ष्टुप्छन्द॒ एव॒श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॒ विष्प॑र्धा॒श्छन्दो॑

विशा॒लं छन्द॑श्छ॒दिश्छन्दो॑ दूरोह॒णं छन्द॑स्त॒न्द्रं छन्दो॑ अङ्का॒ङ्कं छन्द॑:

Yajur Veda

Adhyaya 15, Verse 6

र॒श्मिना॑ स॒त्याय॑ स॒त्यं जि॑न्व॒ प्रेति॑ना॒ धर्म॑णा॒ धर्मं॑ जि॒न्वान्वि॑त्या दि॒वा दिवं॑ जिन्व स॒न्धिना॒ऽन्तरि॑क्षेणा॒न्तरि॑क्षं जिन्व प्रति॒धिना॑ पृथि॒व्या पृ॑थि॒वीं जि॑न्व विष्ट॒म्भेन॒ वृष्ट्या॒ वृष्टिं॑ जिन्व प्र॒वयाऽह्नाऽह॑र्जिन्वानु॒या रात्र्या॒ रात्रीं॑ जिन्वो॒शिजा॒ वसु॑भ्यो॒ वसू॑ञ्जिन्व प्रके॒तेना॑दि॒त्येभ्य॑ आदि॒त्याञ्जि॑न्व

Yajur Veda

Adhyaya 15, Verse 7

तन्तु॑ना रा॒यस्पोषे॑ण रा॒यस्पोषं॑ जिन्व सᳪस॒र्पे॑ण श्रु॒ताय॑ श्रु॒तं जि॑न्वै॒डेनौ॑षधीभि॒रोष॑धीर्जिन्वोत्त॒मेन॑ त॒नूभि॑स्त॒नूर्जि॑न्व व॑यो॒धसाधी॑ते॒नाधी॑तं जिन्वाभि॒जिता॒ तेज॑सा॒ तेजो॑ जिन्व

Yajur Veda

Adhyaya 15, Verse 8

प्रति॒पद॑सि प्रति॒पदे॑ त्वा ऽनु॒पद॑स्यनु॒पदे॑ त्वा स॒म्पद॑सि स॒म्पदे॑ त्वा तेजो॑ऽसि॒ तेज॑से त्वा

Yajur Veda

Adhyaya 15, Verse 9

त्रि॒वृद॑सि त्रि॒वृते॑ त्वा प्र॒वृद॑सि प्र॒वृते॑ त्वा वि॒वृद॑सि वि॒वृते॑ त्वा स॒वृद॑सि स॒वृते॑ त्वा

ऽऽक्र॒मो॒ऽस्याक्र॒माय॑ त्वा संक्र॒मो॒ऽसि संक्र॒माय॑ त्वोत्क्र॒मो॒ऽस्युत्क्र॒माय॒ त्वोत्क्रा॑न्तिर॒स्युत्क्रा॑न्त्यै॒ त्वा

ऽधि॑पतिनो॒र्जोर्जं॑ जिन्व

Yajur Veda

Adhyaya 15, Verse 11

राज्ञ्य॑सि॒ प्राची॒ दिग्वस॑वस्ते दे॒वा अधि॑पतयो॒ऽग्निर्हे॑ती॒नां प्र॑तिध॒र्ता त्रि॒वृत् त्वा॒ स्तोम॑: पृथि॒व्याᳪ श्र॑य॒त्वाज्य॑मु॒क्थमव्य॑थायै स्तभ्नातु रथन्त॒रᳪ साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ।।

१ ० ।।

वि॒राड॑सि॒ दक्षि॑णा॒ दिग्रु॒द्रास्ते॑ दे॒वा अधि॑पतय॒ इन्द्रो॑ हेती॒नां प्र॑तिध॒र्ता प॑ञ्चद॒स्त्वा॒ स्तोम॑: पृथि॒व्याᳪश्र॑यतु॒ प्र उ॑गमु॒क्थमव्य॑थायै स्तभ्नातु बृ॒हत्साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु

Yajur Veda

Adhyaya 15, Verse 12

स॒म्राड॑सि प्र॒तीची॒ दिगा॑दि॒त्यास्ते॑ दे॒वा अधि॑पतयो॒ वरु॑णो हेती॒नां प्र॑तिध॒र्ता स॑प्तद॒शस्त्वा॒ स्तोम॑: पृथि॒व्याᳪ श्र॑यतु मरुत्व॒तीय॑मु॒क्थमव्य॑थायै स्तभ्नातु वैरू॒पᳪसाम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु

Yajur Veda

Adhyaya 15, Verse 13

स्व॒राड॒स्युदी॒ची॒ दिङ्म॒रुत॑स्ते दे॒वा अधि॑पतय॒: सोमो॑ हेती॒नां प्र॑तिध॒र्तैक॑वि॒ᳪशस्त्वा॒ स्तोम॑: पृथि॒व्याᳪ श्र॑यतु॒ निष्के॑वल्यमु॒क्थमव्य॑थायै स्तभ्नातु वैरा॒जँ साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु

Yajur Veda

Adhyaya 15, Verse 14

अधि॑पत्न्यसि बृह॒ती दिग्विश्वे॑ ते दे॒वा अधि॑पतयो॒ बृह॒स्पति॑र्हेती॒नां प्र॑तिध॒र्ता त्रि॑णवत्रयस्त्रि॒ᳪशौ त्वा॒ स्तोमौ॑ पृथि॒व्याᳪ श्र॑यतां वैश्वदेवाग्निमारु॒ते उ॒क्थे अव्य॑थायै स्तभ्नीताᳪ शाक्वररैव॒ते साम॑नी॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु

Yajur Veda

Adhyaya 15, Verse 15

अ॒यं पु॒रो हरि॑केश॒: सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒त्सश्च॒ रथौ॑जाश्च सेनानीग्राम॒ण्यौ॒ |

पु॒ञ्जि॒क॒स्थ॒ला च॑ क्रतुस्थ॒ला चा॑प्स॒रसौ॑ द॒ङ्क्ष्णव॑: प॒शवो॑ हे॒तिः पौ॑रुषेयो व॒धः प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः

Yajur Veda

Adhyaya 15, Verse 16

अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानीग्राम॒ण्यौ॒ ।

मे॒न॒का च॑ सहज॒न्या चा॑प्स॒रसौ॑ यातुधा॒ना हे॒ती रक्षा॑ᳪसि॒ प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः

Yajur Veda

Adhyaya 15, Verse 17

अ॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑प्रो॒तश्चास॑मरथश्च सेनानीग्राम॒ण्यौ॒ ।

प्र॒म्लोच॑न्ती चानु॒म्लोच॑न्ती चाप्स॒रसौ॑ व्या॒घ्रा हे॒तिः स॒र्पा: प्रहे॑ति॒स्तेभ्यो॒ नमो अ॑स्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः

Yajur Veda

Adhyaya 15, Verse 18

अ॒यमु॑त्त॒रात्सं॒यद्व॑सु॒स्तस्य॒ तार्क्ष्य॒श्चारि॑ष्टनेमिश्च सेनानीग्राम॒ण्यौ॒ ।

वि॒श्वाची॑ च घृ॒ताची॑ चाप्स॒रसा॒वापो॑ हे॒तिर्वात॒: प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः

Yajur Veda

Adhyaya 15, Verse 19

अ॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानीग्राम॒ण्यौ॒ ।

उ॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाप्स॒रसा॑वब॒स्फूर्ज॑न् हे॒तिर्वि॒द्युत्प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः

Yajur Veda

Adhyaya 15, Verse 20

अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् ।

अ॒पाᳪ रेता॑ᳪसि जिन्वति

Yajur Veda

Adhyaya 15, Verse 21

अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पति॑: ।

मू॒र्धा क॒वी र॑यी॒णाम्

Yajur Veda

Adhyaya 15, Verse 22

त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत ।

मू॒र्ध्नो विश्व॑स्य वा॒घत॑:

Yajur Veda

Adhyaya 15, Verse 23

भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒: सच॑से शि॒वाभि॑: ।

दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म्

Yajur Veda

Adhyaya 15, Verse 24

अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास॑म् ।

य॒ह्वा इव॒ प्र व॒यामु॒ज्जिहा॑ना॒: प्र भा॒नव॑: सिस्रते॒ नाक॒मच्छ॑

Yajur Veda

Adhyaya 15, Verse 25

अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे॑ ।

गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी॒व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत्

Yajur Veda

Adhyaya 15, Verse 26

अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑: ।

यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॒ वि॒शे-वि॑शे

Yajur Veda

Adhyaya 15, Verse 27

जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्ष॑: सुवि॒ताय॒ नव्य॑से ।

घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्वि भा॑ति भर॒तेभ्य॒: शुचि॑:

Yajur Veda

Adhyaya 15, Verse 28

त्वाम॑ग्ने॒ अङ्गि॑रसो॒ गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑ – वने ।

स जा॑यसे म॒थ्यमा॑न॒: सहो॑ म॒हत्त्वामा॑हु॒: सह॑सस्पु॒त्रम॑ङ्गिरः

Yajur Veda

Adhyaya 15, Verse 29

सखा॑य॒: सं व॑: स॒म्यञ्च॒मिष॒ᳪ स्तोमं॑ चा॒ग्नये॑ ।

वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते

Yajur Veda

Adhyaya 15, Verse 30

सᳪस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ ।

इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र

Yajur Veda

Adhyaya 15, Verse 31

त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तव॑: ।

शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोढ॑वे