Adhyaya 13, Verse 1
मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निᳪ रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ।
मामु॑ दे॒वता॑: सचन्ताम्
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निᳪ रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ।
मामु॑ दे॒वता॑: सचन्ताम्
अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भित॒: पिन्व॑मानम् ।
वर्ध॑मानो म॒हाँ२ आ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्न्या॒ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि व॑:
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्व॑: ।
स॒मा॒नं योनि॒मनु॑ स॒ञ्चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्रा॑:
नमो॑ऽस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ ।
ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्य॑: स॒र्पेभ्यो॒ नम॑:
या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पतीँ॒१ रनु॑ ।
ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्य॑: स॒र्पेभ्यो॒ नम॑:
ये वा॒मी रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म॒प्सु सद॑स्कृ॒तं तेभ्य॑: स॒र्पेभ्यो॒ नम॑:
कृ॒णु॒ष्व पाज॒: प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒२ इभे॑न ।
तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः
तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑स्पृश धृष॒ता शोशु॑चानः ।
तपू॑ᳪष्यग्ने जु॒ह्वा॒ पत॒ङ्गानस॑न्दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः
प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः ।
यो नो॑ दू॒रे अ॒घश॑ᳪसो॒ यो अन्त्यग्ने॒ मा कि॑ष्टे॒ व्यथि॒रा द॑धर्षीत्
उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्यमित्राँ॑२ ओषतात्तिग्महेते ।
यो नो॒ अरा॑तिᳪ समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म्
ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने ।
अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ।
अ॒ग्नेष्ट्वा॒ तेज॑सा सादयामि
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् ।
अ॒पाᳪ रेता॑ᳪसि जिन्वति ।
इन्द्र॑स्य॒ त्वौज॑सा सादयामि
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒: सच॑से शि॒वाभि॑: ।
दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म्
ध्रु॒वाऽसि॑ ध॒रुणाऽऽस्तृ॑ता वि॒श्वक॑र्मणा ।
मा त्वा॑ समु॒द्र उद्व॑धी॒न्मा सु॑प॒र्णोऽव्य॑थमाना पृथि॒वीं दृ॑ᳪह
प्र॒जाप॑तिष्ट्वा सादयत्व॒पां पृ॒ष्ठे स॑मु॒द्रस्येम॑न् ।
व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ प्रथ॑स्व पृथि॒व्य॒सि
भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री ।
पृ॒थि॒वीं य॑च्छ पृथि॒वीं दृ॑ᳪह पृथि॒वीं मा हि॑ᳪसीः
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य ।
अ॒ग्निष्ट्वा॒ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द
काण्डा॑त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षः परुष॒स्परि॑ ।
ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च
या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि ।
तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम्
यास्ते॑ अग्ने॒ सूर्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभि॑: ।
ताभि॑र्नो अ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि
या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुच॑: ।
इन्द्रा॑ग्नी॒ ताभि॒: सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते
वि॒राड्ज्योति॑रधारयत्स्व॒राड्ज्योति॑रधारयत् ।
प्र॒जाप॑तिष्ट्वा सादयतु पृ॒ष्ठे पृ॑थि॒व्या ज्योति॑ष्मतीम् ।
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ ।
अ॒ग्निष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द
मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्नम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः ।
ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे |
वास॑न्तिकावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम्
अषा॑ढाऽसि॒ सह॑माना॒ सह॒स्वारा॑ती॒: सह॑स्व पृतनाय॒तः ।
स॒हस्र॑वीर्याऽसि॒ सा मा॑ जिन्व
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑व॒ᳪ रज॑: ।
मधु॒ द्यौर॑स्तु नः पि॒ता
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ२ अस्तु॒ सूर्य॑: ।
माध्वी॒र्गावो॑ भवन्तु नः
अ॒पां गम्भ॑न्त्सीद॒ मा त्वा॒ सूर्यो॒ऽभि ता॑प्सी॒न्माऽग्निर्वै॑श्वान॒रः ।
अच्छि॑न्नपत्राः प्र॒जा अ॑नु॒वीक्ष॒स्वानु॑ त्वा दि॒व्या वृष्टि॑: सचताम्