Adhyaya 11, Verse 1
यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्त्वाय॑ सवि॒ता धिय॑: ।
अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याऽभ॑रत्
Containing 83 sacred Sanskrit shlokas with multi-author commentaries and translations.
यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्त्वाय॑ सवि॒ता धिय॑: ।
अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याऽभ॑रत्
यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे ।
स्व॒र्ग्या॒य॒ शक्त्या॑
यु॒क्त्वाय॑ सवि॒ता दे॒वान्त्स्व॑र्य॒तो धि॒या दिव॑म् ।
बृ॒हज्ज्योति॑: करिष्य॒तः स॑वि॒ता प्र सु॑वाति॒ तान्
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑: ।
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॒व सू॒रेः ।
शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः
यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा ।
यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजा॑ᳪसि दे॒वः स॑वि॒ता म॑हित्व॒ना
देव॑ सवित॒: प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य ।
दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु
इ॒मं नो॑ देव सवितर्य॒ज्ञं प्र ण॑य देवा॒व्य॒ᳪ सखि॒विद॑ᳪ सत्रा॒जितं॑ धन॒जित॑ᳪ स्व॒र्जित॑म् ।
ऋ॒चा स्तोम॒ᳪ सम॑र्धय गाय॒त्रेण॑ रथन्त॒रं बृ॒हद्गा॑य॒त्रव॑र्तनि॒ स्वाहा॑
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आ द॑दे गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वत्पृ॑थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वदा भ॑र॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वत्
अभ्रि॑रसि॒ नार्य॑सि॒ त्वया॑ व॒यम॒ग्निᳪ श॑केम॒ खनि॑तुᳪ स॒धस्थ॒ आ ।
जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वत्
हस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रि॑ᳪ हिर॒ण्ययी॑म् ।
अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याऽभ॑र॒दानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत्
प्रतू॑र्तं वाजि॒न्ना द्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒वत॑म् ।
दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ तव॒ नाभि॑: पृथि॒व्यामधि॒ योनि॒रित्
यु॒ञ्जाथा॒ᳪ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू ।
अ॒ग्निं भर॑न्तमस्म॒युम्
योगे॑-योगे त॒वस्त॑रं॒ वाजे॑-वाजे हवामहे ।
सखा॑य॒ इन्द्र॑मू॒तये॑
प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यं मयो॒भूरेहि॑ ।
उ॒र्वन्तरि॑क्षं॒ वी॑हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन् पू॒ष्णा स॒युजा॑ स॒ह
पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वदा भ॑रा॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वदच्छे॑मो॒ ऽग्निं पु॑री॒ष्य॒मङ्गिर॒स्वद्भ॑रिष्यामः
अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः ।
अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तन्थ
आ॒गत्य॑ वा॒ज्यध्वा॑न॒ᳪ सर्वा॒ मृधो॒ वि धू॑नुते ।
अ॒ग्निᳪ स॒धस्थे॑ मह॒ति चक्षु॑षा॒ नि चि॑कीषते
आ॒क्रम्य॑ वाजिन् पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम् ।
भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यत॒: खने॑म॒ तं व॒यम्
द्यौ॑स्ते पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्माऽन्तरि॑क्षᳪ समु॒द्रो योनि॑: ।
वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ पृतन्य॒तः
उत्क्रा॑म मह॒ते सौ॑भगाया॒स्मादा॒स्थाना॑द् द्रविणो॒दा वा॑जिन् ।
व॒यᳪ स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निं खन॑न्त उ॒पस्थे॑ अस्याः
उद॑क्रमीद् द्रविणो॒दा वा॒ज्य॒र्वाक॒: सुलो॒कᳪ सुकृ॑तं पृथि॒व्याम् ।
तत॑: खनेम सु॒प्रती॑कम॒ग्निᳪ स्वो॒ रुहा॑णा॒ अधि॒ नाक॑मुत्त॒मम्
आ त्वा॑ जिघर्मि॒ मन॑सा घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑ ।
पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम्
आ वि॒श्वत॑: प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत ।
मर्य॑श्री स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा जर्भु॑राणः
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् ।
दध॒द्रत्ना॑नि दा॒शुषे॑
परि॑ त्वाऽग्ने॒ पुरं॑ व॒यं विप्र॑ᳪ सहस्य धीमहि ।
धृ॒षद्व॑र्णं दि॒वे-दि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम्
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।
त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचि॑:
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वत्ख॑नामि ।
ज्योति॑ष्मन्तं त्वाऽग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्य॑तम् ।
शि॒वं प्र॒जाभ्योऽहि॑ᳪसन्तं पृथि॒व्या: स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वत्ख॑नामः
अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भित॒: पिन्व॑मानम् ।
वर्ध॑मानो म॒हाँ२ आ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व
शर्म॑ च स्थो॒ वर्म॑ च॒ स्थोऽछि॑द्रे बहु॒ले उ॒भे ।
व्यच॑स्वती॒ सं व॑साथां भृ॒तम॒ग्निं पु॑री॒ष्य॒म्