Yajnavalkya Upanishad

Complete Upanishad

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Yajnavalkya Upanishad

Complete Upanishad, Verse 1

याज्ञवल्क्योपनिषत्

संन्यासज्ञानसम्पन्ना यान्ति यद्वैष्णवं पदम् ।

तद्वै पदं ब्रह्मतत्त्वं रामचन्द्रपदं भजे ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

अथ जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच

भगवन्संन्यासमनुब्रूहीति कथं संन्यासलक्षणम् ।

स

होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्य गृही भवेत् ।

गृहाद्वनी भूत्वा प्रव्रजेत् ।

यदि वेतरथा ब्रह्मचर्यादेव

प्रव्रजेद्गृहाद्वा वनाद्वा ।

अथ पुनर्व्रती वाव्रती वा स्नातको

वाऽस्नातको वा उत्सन्नाग्निरनग्नोकोऽवा यदहरेव विरजेत्तदहरेव

प्रव्रजेत् ।

तदेके प्राजापत्यामेवेष्टिं कुर्वन्ति ।

अथ वा न

कुर्यादाग्नेय्यामेव कुर्यात् ।

अग्निर्हि प्राणः ।

प्राणमेवैतया करोति ।

त्रैधातवीयामेव कुर्यात् ।

एतयैव त्रयो धातवो यदुत सत्त्वं

रजस्तम इति अयं ते योनिरृत्विजो यतो जातो अरोचथाः ।

तं जानन्नग्न

आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणाग्निमाजिघ्रेत् ।

एष वा

अग्नेर्योनिर्यः प्राणं गच्छ स्वां योनिं गच्छ स्वाहेत्येवमेवैत-

दाग्रामादग्निमाहृत्य पूर्ववदग्निमाजिघ्रेत् यदग्निं न विन्देदप्सु

जुहुयादापो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति

साज्यं हविरनामयम् ।

मोक्षमन्त्रस्त्रय्येवं वेद तद्ब्रह्म

तदुपासितव्यम् ।

शिखां यज्ञोपवीतं छित्त्वा संन्यस्तं मयेति

त्रिवारमुच्चरेत् ।

एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः

Yajnavalkya Upanishad

Complete Upanishad, Verse 2

अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं यज्ञोपवीती

कथं ब्राह्मण इति ।

स होवाच याज्ञवल्क्य इदं

प्रणवमेवास्य तद्यज्ञोपवीतं य आत्मा ।

प्राश्याचम्यायं

विधिरथ वा परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही

भैक्षमाणो ब्रह्म भूयाय भवति ।

एष पन्थाः

परिव्राजकानां वीराध्वनि वाऽनाशके वापां प्रवेशे

वाग्निप्रवेशे वा महाप्रस्थाने वा ।

एष पन्था ब्रह्मणा

हानुवित्तस्तेनेति स संन्यासी ब्रह्मविदिति ।

एवमेवैष भगवन्निति

वै याज्ञवल्क्य ।

तत्र परमहंसा नाम संवर्तकारुणि-

श्वेतकेतुदूर्वासऋभुनिदाघदत्तात्रेयशुकवामदेव-

हारीतकप्रभृतयोऽव्यक्तलिङ्गाऽव्यक्ताचारा अनुन्मत्ता

उन्मत्तवदाचरन्तः परस्त्रीपुरपराङ्मुखास्त्रिदण्डं

कमण्डलुं भुक्तपात्रं जलपवित्रं शिखां यज्ञोपवीतं

बहिरन्तश्चेत्येतत्सर्वं भूः स्वाहेत्यप्सु परित्यज्यात्मान-

मन्विच्छेत् ।

यथा जातरूपधरा निर्द्वन्द्वा निष्परिग्रहा-

स्तत्त्वब्रह्ममार्गे सम्यक्सम्पन्नाः शुद्धमानसाः

प्राणसन्धारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचर-

न्नुदरपात्रेण लाभालाभौ समौ भूत्वा करपात्रेण वा

कमण्डलूदकपो भैक्षमाचरन्नुदरमात्रसंग्रहः

पात्रान्तरशून्यो जलस्थलकमण्डलुरबाधकरहःस्थल-

निकेतनो लाभालाभौ समौ भूत्वा शून्यागारदेवगृह-

तृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदी-

पुलुनगिरिकुहरकोटरकन्दरनिर्झरस्थण्डिलेष्वनिकेतनिवास्य-

प्रयत्नःशुभाशुभकर्मनिर्मूलनपरः संन्यासेन

देहत्यागं करोति स परमहंसो नामेति ।

आशाम्बरो न

नमस्कारो न दारपुत्राभिलाषी लक्ष्यालक्ष्यनिर्वर्तकः

परिव्राट् परमेश्वरो भवति ।

अत्रैते श्लोका भवन्ति ।

यो भवेत्पूर्वसंन्यासी तुल्यो वै धर्मतो यदि ।

तस्मै प्रणामः कर्तव्यो नेतराय कदाचन

Yajnavalkya Upanishad

Complete Upanishad, Verse 3

प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः ।

संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताशयाः

Yajnavalkya Upanishad

Complete Upanishad, Verse 4

नामादिभ्यः परे भूम्नि स्वाराज्ये चेत्स्थितोऽद्वथे ।

प्रणमेत्कं तदात्मज्ञो न कार्यं कर्मणा तदा

Yajnavalkya Upanishad

Complete Upanishad, Verse 5

ईश्वरो जीवकलया प्रविष्टो भगवानिति ।

प्रणमेद्दण्डवद्भूमावाश्वचण्डालगोखरम्

Yajnavalkya Upanishad

Complete Upanishad, Verse 6

मांसपाञ्चालिकायास्तु यन्त्रलोकेऽङ्गपञ्जरे ।

स्नाय्वस्थिग्रन्थिशालिन्यः स्त्रियः किमिव शोभनम्

Yajnavalkya Upanishad

Complete Upanishad, Verse 7

त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचने ।

समालोकय रम्यं चेत्किं मुधा परिमुह्यसि

Yajnavalkya Upanishad

Complete Upanishad, Verse 8

मेरुश‍ृङ्गतटोल्लासि गङ्गाजलस्योपमा ।

दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लसशालिता

Yajnavalkya Upanishad

Complete Upanishad, Verse 9

श्मनानेषु दिगन्तेषु स एव ललनास्तनः ।

श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः

Yajnavalkya Upanishad

Complete Upanishad, Verse 10

केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः ।

दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम्

Yajnavalkya Upanishad

Complete Upanishad, Verse 11

ज्वलना अतिदूरेऽपि सरसा अपि नीरसाः ।

स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम्

Yajnavalkya Upanishad

Complete Upanishad, Verse 12

कामनाम्ना किरातेन विकीर्णा मुग्धचेतसः ।

नार्यो नरविहङ्गानामङ्गबन्धनवागुराः

Yajnavalkya Upanishad

Complete Upanishad, Verse 13

जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् ।

पुंसां दुर्वासनारज्जुर्नारीबडिशपिण्डिका

Yajnavalkya Upanishad

Complete Upanishad, Verse 14

सर्वेषां दोषरत्नानां सुसमुद्गिकयानया ।

दुःखश‍ृङ्खलया नित्यमलमस्तु मम स्त्रिया

Yajnavalkya Upanishad

Complete Upanishad, Verse 15

यस्य स्त्री तस्य भोगेच्छा निस्त्रीकस्य क्व भोगभूः ।

स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत्

Yajnavalkya Upanishad

Complete Upanishad, Verse 16

अलभ्यमानस्तनयः पितरौ क्लेशयेच्चिरम् ।

लब्धो हि गर्भपातेन प्रसवेन च बाधते

Yajnavalkya Upanishad

Complete Upanishad, Verse 17

जातस्य ग्रहरोगादि कुमारस्य च धूर्तता ।

उपनीतेऽप्यविद्यत्वमनुद्वाहश्च पण्डिते

Yajnavalkya Upanishad

Complete Upanishad, Verse 18

यूनश्च परदारादि दारिद्र्यं च कुटुम्बिनः ।

पुत्रदुःखस्य नास्त्यन्तो धनी चेन्म्रियते तदा

Yajnavalkya Upanishad

Complete Upanishad, Verse 19

न पाणिपादचपलो न नेत्रचपलो यतिः ।

न च वाक्चपलश्चैव ब्रह्मभूतो जितेन्द्रियः

Yajnavalkya Upanishad

Complete Upanishad, Verse 20

रिपौ बद्धे स्वदेहे च समैकात्म्यं प्रपश्यतः ।

विवेकिनः कुतः कोपः स्वदेहावयवेष्विव

Yajnavalkya Upanishad

Complete Upanishad, Verse 21

अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते ।

धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि

Yajnavalkya Upanishad

Complete Upanishad, Verse 22

नमोऽस्तु मम कोपाय स्वाश्रयज्वालिने भृशम् ।

कोपस्य मम वैराग्यदायिने दोषबोधिने

Yajnavalkya Upanishad

Complete Upanishad, Verse 23

यत्र सुप्ता जना नित्यं प्रबुद्धस्तत्र संयमी ।

प्रबुद्धा यत्र ते विद्वान्सुषुप्तिं याति योगिराट्

Yajnavalkya Upanishad

Complete Upanishad, Verse 24

चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च ।

चित्त्वं चिदहमेते च लोकाश्चिदिति भावय

Yajnavalkya Upanishad

Complete Upanishad, Verse 25

यतीनां तदुपादेयं पारहंस्यं परं पदम् ।

नातः परतरं किञ्चिद्विद्यते मुनिपुङ्गवः