Vasudeva Upanishad

Complete Upanishad

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Vasudeva Upanishad

Complete Upanishad, Verse 1

वासुदेवोपनिषत्

Vasudeva Upanishad

Complete Upanishad, Verse 2

(सामवेदीय)

Vasudeva Upanishad

Complete Upanishad, Verse 3

यत्सर्वहृदयागारं यत्र सर्वं प्रतिष्ठितम् ।

वस्तुतो यन्निराधारं वासुदेवपदं भजे ॥

Vasudeva Upanishad

Complete Upanishad, Verse 4

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च ॥

सर्वाणि सर्वं ब्रह्मोपनिषदं

माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-

मयि सन्तु ते मयि सन्तु ॥

Vasudeva Upanishad

Complete Upanishad, Verse 5

ॐ शान्तिः शान्तिः शान्तिः ॥

Vasudeva Upanishad

Complete Upanishad, Verse 6

(ऊर्ध्वपुण्ड्रविधिजिज्ञासा)

Vasudeva Upanishad

Complete Upanishad, Verse 7

ॐ नमस्कृत्य भगवान्नारदः सर्वेश्वरं वासुदेवं पप्रच्छ

अधीहि भगवन्नूर्ध्वपुण्ड्रविधिं द्रव्यमन्त्रस्थानादिसहितं मे

ब्रूहीति ।

Vasudeva Upanishad

Complete Upanishad, Verse 8

(गोपीचन्दनस्वरूपम्)

Vasudeva Upanishad

Complete Upanishad, Verse 9

तं होवाच भगवान्वासुदेवो वैकुण्ठस्थानादुत्पन्नं

मम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनं

ममाङ्गे प्रतिदिनमालिप्तं गोपीभिः प्रक्षालनाद्गोपीचन्दन-

माख्यातं मदङ्गलेपनं पुण्यं चक्रतीर्थान्तःस्थितं

चक्रसमायुक्तं पीतवर्णं मुक्तिसाधनं भवति ।

Vasudeva Upanishad

Complete Upanishad, Verse 10

(गोपीचन्दनोद्धारधारणयोर्विधानम्)

Vasudeva Upanishad

Complete Upanishad, Verse 11

अथ गोपीचन्दनं नमस्कृत्वोद्धृत्य ।

गोपीचन्दन पापघ्न विष्णुदेहसमुद्भव ।

चक्राङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भव ।

इमं मे गङ्गे इति जलमादाय विष्णोर्नुकमिति मर्दयेत् ।

अतो देवा अवन्तु न इत्येतन्मन्त्रैर्विष्णुगायत्र्या केशवादि-

नामभिर्वा धारयेत् ।

Vasudeva Upanishad

Complete Upanishad, Verse 12

(ब्रह्मचार्यादीनां धारणाप्रकारः)

Vasudeva Upanishad

Complete Upanishad, Verse 13

ब्रह्मचारी वानप्रस्थो वा

ललाटहृदयकण्ठबाहूमूलेषु वैष्णवगायत्र्या

कृष्णादिनामभिर्वा धारयेत् ।

इति त्रिवारमभिमन्त्र्य

शङ्खचक्रगदापाणे द्वारकानिलयाच्युत ।

गोविन्द

पुण्डरीकाक्ष रक्ष मां शरणागतम् ।

इति ध्यात्वा

गृहस्थो ललाटादिद्वादशस्थलेष्वनामिकाङ्गुल्या

वैष्णवगायत्र्या केशवादिनामभिर्वा धारयेत् ।

ब्रह्मचारी गृहस्थो वा ललाटहृदयकण्ठबाहूमूलेषु

वैष्णवगायत्र्या कृष्णादिनामभिर्वा धारयेत् ।

यतिस्तर्जन्या शिरोललाटहृदयेषु प्रणवेनैव धारयेत् ।

Vasudeva Upanishad

Complete Upanishad, Verse 14

(त्रिपुण्ड्रस्य त्रिमूर्त्यादिरूपत्वम्)

Vasudeva Upanishad

Complete Upanishad, Verse 15

ब्रह्मादयस्त्रयो मूर्तयस्तिस्रो व्याहृतयस्त्रीणि छन्दांसि

त्रयोऽग्नय इति ज्योतिष्मन्तस्त्रयः कालास्तिस्रोऽवस्थास्त्रय

आत्मानः पुण्ड्रात्रय ऊर्ध्वा अकार उकारो मकार एते

प्रणवमयोर्ध्वपुण्ड्रास्तदात्मा सदेतदोमिति ।

तानेकधा

समभवत् ।

ऊर्ध्वमुन्नमयत इत्योङ्काराधिकारी ।

तस्मादूर्ध्वपुण्ड्रं धारयेत् ।

परमहंसो ललाटे

प्रणवेनैकमूर्ध्वपुण्ड्रं वा धारयेत् ।

Vasudeva Upanishad

Complete Upanishad, Verse 16

(वासुदेवध्यानप्रकारः)

Vasudeva Upanishad

Complete Upanishad, Verse 17

तत्त्वप्रदीपप्रकाशं स्वात्मानं पश्यन्योगी

मत्सायुज्यमवाप्नोति ।

अथ वा न्यस्तहृदयपुण्ड्रमध्ये

वा हृदयकमलमध्ये वा ।

तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ।

नीलतोयदमध्यस्थाद्विद्युल्लेखेव भास्वरा ।

नीवारशूकवत्तन्वी परमात्मा व्यवस्थित इति ।

अतः पुण्ड्रस्थं हृदयपुण्डरीकेषु तमभ्यसेत् ।

क्रमादेवं स्वात्मानं भावयेन्मां परं हरिम् ।

एकाग्रमनसा यो मां ध्यायते हरिमव्ययम् ।

हृत्पङ्कजे च स्वात्मानं स मुक्तो नात्र संशयः ।

मद्रूपमद्वयं ब्रह्म आदिमध्यान्तवर्जितम् ।

स्वप्रभं सच्चिदानन्दं भक्त्या जानाति चाव्ययम् ।

Vasudeva Upanishad

Complete Upanishad, Verse 18

(वासुदेवस्य सर्वात्मत्वम्)

Vasudeva Upanishad

Complete Upanishad, Verse 19

एको विष्णुरनेकेषु जङ्गमस्थावरेषु च ।

अनुस्युतो वसत्यात्मा भूतेष्वहमवस्थितः ।

तैलं तिलेषु काष्ठेषु वह्निः क्षीरे घृतं यथा ।

गन्धः पुष्पेषु भूतेषु तथात्मावस्थितो ह्यहम् ।

Vasudeva Upanishad

Complete Upanishad, Verse 20

(बासुदेवध्यानस्थानेषु गोपीचन्दनधारणम्)

Vasudeva Upanishad

Complete Upanishad, Verse 21

ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृदये चिद्रविं हरिम् ।

गोपीचन्दनमालिप्य तत्र ध्यात्वाप्नुयात्परम् ।

ऊर्ध्वदण्डोर्ध्वरेताश्च ऊर्ध्वपुण्ड्रोर्ध्वयोगवान् ।

ऊर्ध्वं पदमवाप्नोति यतिरूर्ध्वचतुष्कवान् ।

इत्येतन्निश्चितं ज्ञानं मद्भक्त्या सिध्यति स्वयम् ।

नित्यमेकाग्रभक्तिः स्याद्गोपीचन्दनधारणात् ।

Vasudeva Upanishad

Complete Upanishad, Verse 22

(गोपीचन्दनभस्मनोर्धारणविधिः)

Vasudeva Upanishad

Complete Upanishad, Verse 23

ब्राह्माणानां तु सर्वेषां वैदिकानामनुत्तमम् ।

गोपीचन्दनवारिभ्यामूर्ध्वपुण्ड्रं विधीयते ।

यो गोपीचन्दनाभावे तुलसीमूलमृत्तिकाम् ।

मुमुक्षुर्धारयेन्नित्यमपरोक्षात्मसिद्धये ।

अतिरात्राग्निहोत्रभस्मनाग्नेर्भसितमिदंविष्णुस्त्रीणि

पदेति मन्त्रैर्वैष्णवगायत्र्या प्रणवेनोद्धूलनं कुर्यात् ।

एवं विधिना गोपीचन्दनं च धारयेत् ।

यस्त्वधीते वा स सर्वपातकेभ्यः पूतो भवति ।

पापबुद्धिस्तस्य न जायते ।

स सर्वेषु तीर्थेषु स्नातो भवति ।

स सर्वैर्यज्ञैर्याजितो भवति ।

स सर्वैर्देवैः पूज्यो भवति ।

श्रीमन्नारायणे मय्यचञ्चला भक्तिश्च भवति ।

स सम्यग्ज्ञानं च लब्ध्वा विष्णुसायुज्यमवाप्नोति ।

न च पुनरावर्तते न च पुनरावर्तते इत्याह भगवान्वासुदेवः ।

यस्त्वेतद्वाधीते सोऽप्येवमेव भवतीत्यों सत्यमित्युपनिषत् ॥

Vasudeva Upanishad

Complete Upanishad, Verse 24

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो

बलमिद्रियाणि च ॥

सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म

निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकणं मेस्तु

Vasudeva Upanishad

Complete Upanishad, Verse 25

ॐ शान्तिः शान्तिः शान्तिः ॥

Vasudeva Upanishad

Complete Upanishad, Verse 26

इति वासुदेवोपनिषत्समाप्ता ॥