Complete Upanishad, Verse 1
वराहोपनिषत्
श्रीमद्वाराहोपनिषद्वेद्याखण्डसुखाकृति ।
त्रिपान्नारायणाख्यं तद्रामचन्द्रपदं भजे ॥
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
तेजस्विनावधी तमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥
अथ ऋभुर्वै महामुनिर्देवमानेन द्वादशवत्सरं
तपश्चचार ।
तदवसाने वराहरूपी भगवान्प्रादुरभूत् ।
स होवाचोत्तिष्ठोत्तिष्ठ वरं वृणीश्वेति ।
सोदतिष्ठत् ।
तस्मै नमस्कृत्योवाच भगवन्कामिभिर्यद्यत्कामितं
तत्तत्त्वत्सकाशात्स्वप्नेऽपि न याचे ।
समस्तवेदशास्त्रेतिहासपुराणानि
समस्तविद्याजालानि ब्रह्मादयः सुराः सर्वे त्वद्रूपज्ञानान्मुक्तिमाहुः ।
अतस्त्वद्रूपप्रतिपादिकां ब्रह्मविद्यां ब्रूहीति होवाच ।
तथेति स होवाच
वराहरूपी भगवान् ।
चतुर्विंशतितत्त्वानि केचिदिच्छन्ति वादिनः ।
केचित्षट्त्रिंशत्तत्त्वानि केचित्षण्णवतीनि च