Uttarakanda, Sarga 99, Verse 1
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः
रामः कमलपत्राक्षः पुरोधसमथाब्रवीत्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः
रामः कमलपत्राक्षः पुरोधसमथाब्रवीत्
अग्निहोत्रं व्रजत्वग्रे सर्पिर्ज्वलितपावकम्
वाजपेयातपत्रं च शोभयानं महापथम्
ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः
चकार विधिवद्धर्म्यं महाप्रास्थानिकं विधिम्
ततः क्षौमाम्बरधरो ब्रह्म चावर्तयन्परम्
कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ
अव्याहरन्क्वचित्किंचिन्निश्चेष्टो निःसुखः पथि
निर्जगाम गृहात्तस्माद्दीप्यमानो यथांशुमान्
रामस्य पार्श्वे सव्ये तु पद्मा श्रीः सुसमाहिता
दक्षिणे ह्रीर्विशालाक्षी व्यवसायस्तथाग्रतः
शरा नानाविधाश्चापि धनुरायतविग्रहम्
अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः
वेदा ब्राह्मणरूपेण सावित्री सर्वरक्षिणी
ओंकारोऽथ वषट्कारः सर्वे राममनुव्रताः
ऋषयश्च महात्मानः सर्व एव महीसुराः
अन्वगच्छन्त काकुत्स्थं स्वर्गद्वारमुपागतम्
तं यान्तमनुयान्ति स्म अन्तःपुरचराः स्त्रियः
सवृद्धबालदासीकाः सवर्षवरकिंकराः
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ
रामव्रतमुपागम्य राघवं समनुव्रताः
ततो विप्रा महात्मानः साग्निहोत्राः समाहिताः
सपुत्रदाराः काकुत्स्थमन्वगच्छन्महामतिम्
मन्त्रिणो भृत्यवर्गाश्च सपुत्राः सहबान्धवाः
सानुगा राघवं सर्वे अन्वगच्छन्प्रहृष्टवत्
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः
अनुजग्मुः प्रगच्छन्तं राघवं गुणरञ्जिताः
स्नातं प्रमुदितं सर्वं हृष्टपुष्टमनुत्तमम्
दृप्तं किलिकिलाशब्दैः सर्वं राममनुव्रतम्
न तत्र कश्चिद्दीनोऽभूद्व्रीडितो वापि दुःखितः
हृष्टं प्रमुदितं सर्वं बभूव परमाद्भुतम्
द्रष्टुकामोऽथ निर्याणं राज्ञो जानपदो जनः
संप्राप्तः सोऽपि दृष्ट्वैव सह सर्वैरनुव्रतः
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः
अगछन्परया भक्त्या पृष्ठतः सुसमाहिताः