Uttarakanda, Sarga 97, Verse 1
विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः
पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत्
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः
पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत्
अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम्
अयोध्यायां पतिं वीरं ततो यास्याम्यहं वनम्
प्रवेशयत संभारान्मा भूत्कालात्ययो यथा
अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम्
तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम्
मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन्
भरतश्च विसंज्ञोऽभूच्छ्रुत्वा रामस्य भाषितम्
राज्यं विगर्हयामास राघवं चेदमब्रवीत्
सत्येन हि शपे राजन्स्वर्गलोके न चैव हि
न कामये यथा राज्यं त्वां विना रघुनन्दन
इमौ कुशीलवौ राजन्नभिषिञ्च नराधिप
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम्
शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः
इदं गमनमस्माकं स्वर्गायाख्यान्तु माचिरम्
तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान्
पौरान्दुःखेन संतप्तान्वसिष्ठो वाक्यमब्रवीत्
वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः
ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः
वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम्
किं करोमीति काकुत्स्थः सर्वान्वचनमब्रवीत्
ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन्
गच्छन्तमनुगच्छामो यतो राम गमिष्यसि
एषा नः परमा प्रीतिरेष धर्मः परो मतः
हृद्गता नः सदा तुष्टिस्तवानुगमने दृढा
पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः
सपुत्रदाराः काकुत्स्थ समं गच्छाम सत्पथम्
तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा
वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर
स तेषां निश्चयं ज्ञात्वा कृतान्तं च निरीक्ष्य च
पौराणां दृढभक्तिं च बाढमित्येव सोऽब्रवीत्
एवं विनिश्चयं कृत्वा तस्मिन्नहनि राघवः
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम्
अभिषिञ्चन्महात्मानावुभावेव कुशीलवौ
रथानां तु सहस्राणि त्रीणि नागायुतानि च
दश चाश्वसहस्राणि एकैकस्य धनं ददौ
बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ
अभिषिच्य तु तौ वीरौ प्रस्थाप्य स्वपुरे तथा
दूतान्संप्रेषयामास शत्रुघ्नाय महात्मने