Uttarakanda, Sarga 96, Verse 1
अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम्
राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम्
राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत्
न संतापं महाबाहो मदर्थं कर्तुमर्हसि
पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी
जहि मां सौम्य विस्रब्धः प्रतिज्ञां परिपालय
हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः
यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि
जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव
लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः
मन्त्रिणः समुपानीय तथैव च पुरोधसं
अब्रवीच्च यथावृत्तं तेषां मध्ये नराधिपः
दुर्वासोऽभिगमं चैव प्रतिज्ञां तापसस्य च
तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत
वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह
दृष्टमेतन्महाबाहो क्षयं ते लोमहर्षणम्
लक्ष्मणेन वियोगश्च तव राम महायशः
त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृथाः
विनष्टायां प्रतिज्ञायां धर्मो हि विलयं व्रजेत्
ततो धर्मे विनष्टे तु त्रैलोक्ये सचराचरम्
सदेवर्षिगणं सर्वं विनश्येत न संशयः
स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनम्
लक्ष्मणस्य वधेनाद्य जगत्स्वस्थं कुरुष्व ह
तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम्
श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत्
विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः
त्यागो वधो वा विहितः साधूनामुभयं समम्
रामेण भाषिते वाक्ये बाष्पव्याकुलितेक्षणः
लक्ष्मणस्त्वरितः प्रायात्स्वगृहं न विवेश ह
स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः
निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह
अनुच्छ्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः
देवाः सर्षिगणाः सर्वे पुष्पैरवकिरंस्तदा
अदृश्यं सर्वमनुजैः सशरीरं महाबलम्
प्रगृह्य लक्ष्मणं शक्रो दिवं संप्रविवेश ह
ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः
हृष्टाः प्रमुदिताः सर्वेऽपूजयनृषिभिः सह