Uttarakanda, Sarga 95, Verse 1
तथा तयोः कथयतोर्दुर्वासा भगवानृषिः
रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा तयोः कथयतोर्दुर्वासा भगवानृषिः
रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत्
सोऽभिगम्य च सौमित्रिमुवाच ऋषिसत्तमः
रामं दर्शय मे शीघ्रं पुरा मेऽर्थोऽतिवर्तते
मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा
अभिवाद्य महात्मानं वाक्यमेतदुवाच ह
किं कार्यं ब्रूहि भगवन्को वार्थः किं करोम्यहम्
व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं वा प्रतीक्षताम्
तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः
उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा
अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय
विषयं त्वां पुरं चैव शपिष्ये राघवं तथा
भरतं चैव सौमित्रे युष्माकं या च संततिः
न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि
तच्छ्रुत्वा घोरसंकाशं वाक्यं तस्य महात्मनः
चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम्
एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम्
इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत्
लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च
निष्पत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा
किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत
तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुः
प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल
अद्य वर्षसहस्रस्य समाप्तिर्मम राघव
सोऽहं भोजनमिच्छामि यथासिद्धं तवानघ
तच्छ्रुत्वा वचनं रामो हर्षेण महतान्वितः
भोजनं मुनिमुख्याय यथासिद्धमुपाहरत्
स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम्
साधु रामेति संभाष्य स्वमाश्रममुपागमत्
तस्मिन्गते महातेजा राघवः प्रीतमानसः
संस्मृत्य कालवाक्यानि ततो दुःखमुपेयिवान्
दुःखेन च सुसंतप्तः स्मृत्वा तद्घोरदर्शनम्
अवान्मुखो दीनमना व्याहर्तुं न शशाक ह
ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः
नैतदस्तीति चोक्त्वा स तूष्णीमासीन्महायशाः