Uttarakanda, Sarga 92, Verse 1
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह
वाक्यं चाद्भुतसंकाशं भ्रातॄन्प्रोवाच राघवः
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह
वाक्यं चाद्भुतसंकाशं भ्रातॄन्प्रोवाच राघवः
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ
अङ्गदश्चन्द्रकेतुश्च राज्यार्हौ दृढधन्विनौ
इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम्
रमणीयो ह्यसंबाधो रमेतां यत्र धन्विनौ
न राज्ञां यत्र पीदा स्यान्नाश्रमाणां विनाशनम्
स देशो दृश्यतां सौम्य नापराध्यामहे यथा
तथोक्तवति रामे तु भरतः प्रत्युवाच ह
अयं कारापथो देशः सुरमण्यो निरामयः
निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः
चन्द्रकेतोश्च रुचिरं चन्द्रकान्तं निरामयम्
तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः
तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत्
अङ्गदीया पुरी रम्या अङ्गदस्य निवेशिता
रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा
चन्द्रकेतोस्तु मल्लस्य मल्लभूम्यां निवेशिता
चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा
ततो रामः परां प्रीतिं भरतो लक्ष्मणस्तथा
ययुर्युधि दुराधर्षा अभिषेकं च चक्रिरे
अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सबलानुगौ
अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम्
अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह
चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह
लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः
पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत्
भरतोऽपि तथैवोष्य संवत्सरमथाधिकम्
अयोध्यां पुनरागम्य रामपादावुपागमत्
उभौ सौमित्रिभरतौ रामपादावनुव्रतौ
कालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ
एवं वर्षसहस्राणि दश तेषां ययुस्तदा
धर्मे प्रयतमानानां पौरकार्येषु नित्यदा
विहृत्य कालं परिपूर्णमानसाः; श्रिया वृता धर्मपथे परे स्थिताः
त्रयः समिद्धा इव दीप्ततेजसा; हुताग्नयः साधु महाध्वरे त्रयः