Uttarakanda, Sarga 91, Verse 1
श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः
युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत्
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः
युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत्
स निर्ययौ जनौघेन महता केकयाधिपः
त्वरमाणोऽभिचक्राम गन्धर्वान्देवरूपिणः
भरतश्च युधाजिच्च समेतौ लघुविक्रमौ
गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ
श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः
योद्धुकामा महावीर्या विनदन्तः समन्ततः
ततः समभवद्युद्धं तुमुलं लोमहर्षणम्
सप्तरात्रं महाभीमं न चान्यतरयोर्जयः
ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम्
संवर्तं नाम भरतो गन्धर्वेष्वभ्ययोजयत्
ते बद्धाः कालपाशेन संवर्तेन विदारिताः
क्षणेनाभिहतास्तिस्रस्तत्र कोट्यो महात्मना
तं घातं घोरसंकाशं न स्मरन्ति दिवौकसः
निमेषान्तरमात्रेण तादृशानां महात्मनाम्
हतेषु तेषु वीरेषु भरतः कैकयीसुतः
निवेशयामास तदा समृद्धे द्वे पुरोत्तमे
तक्षं तक्षशिलायां तु पुष्करं पुष्करावतौ
गन्धर्वदेशो रुचिरो गान्धारविषयश्च सः
वर्षैः पञ्चभिराकीर्णो विषयैर्नागरैस्तथा
धनरत्नौघसंपूर्णो काननैरुपशोभिते
अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरे
उभे सुरुचिरप्रख्ये व्यवहारैरकल्मषैः
उद्यानयानौघवृते सुविभक्तान्तरापणे
उभे पुरवरे रम्ये विस्तरैरुपशोभिते
गृहमुख्यैः सुरुचिरैर्विमानैः समवर्णिभिः
शोभिते शोभनीयैश्च देवायतनविस्तरैः
निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः
पुनरायान्महाबाहुरयोध्यां कैकयीसुतः
सोऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम्
राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः
शशंस च यथावृत्तं गन्धर्ववधमुत्तमम्
निवेशनं च देशस्य श्रुत्वा प्रीतोऽस्य राघवः