Uttarakanda, Sarga 90, Verse 1
कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः
स्वगुरुं प्रेषयामास राघवाय महात्मने
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः
स्वगुरुं प्रेषयामास राघवाय महात्मने
गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम्
दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम्
कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम्
रामाय प्रददौ राजा बहून्याभरणानि च
श्रुत्वा तु राघवो गार्ग्यं महर्षिं समुपागतम्
मातुलस्याश्वपतिनः प्रियं दूतमुपागतम्
प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुगः
गार्ग्यं संपूजयामास धनं तत्प्रतिगृह्य च
पृष्ट्वा च प्रीतिदं सर्वं कुशलं मातुलस्य च
उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे
किमाह मातुलो वाक्यं यदर्थं भगवानिह
प्राप्तो वाक्यविदां श्रेष्ठ साक्षादिव बृहस्पतिः
रामस्य भाषितं श्रुत्वा ब्रह्मर्षिः कार्यविस्तरम्
वक्तुमद्भुतसंकाशं राघवायोपचक्रमे
मातुलस्ते महाबाहो वाक्यमाह नरर्षभ
युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते
अयं गन्धर्वविषयः फलमूलोपशोभितः
सिन्धोरुभयतः पार्श्वे देशः परमशोभनः
तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः
शैलूषस्य सुता वीरास्तिस्रः कोट्यो महाबलाः
तान्विनिर्जित्य काकुत्स्थ गन्धर्वविषयं शुभम्
निवेशय महाबाहो द्वे पुरे सुसमाहितः
अन्यस्य न गतिस्तत्र देशश्चायं सुशोभनः
रोचतां ते महाबाहो नाहं त्वामनृतं वदे
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च
उवाच बाढमित्येवं भरतं चान्ववैक्षत
सोऽब्रवीद्राघवः प्रीतः प्राञ्जलिप्रग्रहो द्विजम्
इमौ कुमारौ तं देशं ब्रह्मर्षे विजयिष्यतः
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च
मातुलेन सुगुप्तौ तौ धर्मेण च समाहितौ
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ
निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः
निवेश्य ते पुरवरे आत्माजौ संनिवेश्य च
आगमिष्यति मे भूयः सकाशमतिधार्मिकः
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम्
आज्ञापयामास तदा कुमारौ चाभ्यषेचयत्
नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम्
भरतः सह सैन्येन कुमाराभ्यां च निर्ययौ
सा सेना शक्रयुक्तेव नरगान्निर्ययावथ
राघवानुगता दूरं दुराधर्षा सुरासुरैः
मांसाशीनि च सत्त्वानि रक्षांसि सुमहान्ति च
अनुजग्मुश्च भरतं रुधिरस्य पिपासया
भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः
गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः
सिंहव्याघ्रसृगालानां खेचराणां च पक्षिणाम्
बहूनि वै सहस्राणि सेनाया ययुरग्रतः
अध्यर्धमासमुषिता पथि सेना निरामया
हृष्टपुष्टजनाकीर्णा केकयं समुपागमत्