Uttarakanda, Sarga 89, Verse 1
तदावसाने यज्ञस्य रामः परमदुर्मनाः
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत्
शोकेन परमायत्तो न शान्तिं मनसागमत्
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
तदावसाने यज्ञस्य रामः परमदुर्मनाः
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत्
शोकेन परमायत्तो न शान्तिं मनसागमत्
विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान्
जनौघं ब्रह्ममुख्यानां वित्तपूर्णं व्यसर्जयत्
ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश सः
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः
यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत्
दशवर्षसहस्राणि वाजिमेधमुपाकरोत्
वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान्
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः
ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः
एवं स कालः सुमहान्राज्यस्थस्य महात्मनः
धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु
ऋक्षवानररक्षांसि स्थिता रामस्य शासने
अनुरज्यन्ति राजानो अहन्यहनि राघवम्
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः
हृष्टपुष्टजनाकीर्णं पुरं जनपदस्तथा
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तदा
नाधर्मश्चाभवत्कश्चिद्रामे राज्यं प्रशासति
अथ दीर्घस्य कालस्य राममाता यशस्विनी
पुत्रपौत्रैः परिवृता कालधर्ममुपागमत्
अन्वियाय सुमित्रापि कैकेयी च यशस्विनी
धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता
सर्वाः प्रतिष्ठिताः स्वर्गे राज्ञा दशरथेन च
समागता महाभागाः सहधर्मं च लेभिरे
तासां रामो महादानं काले काले प्रयच्छति
मातॄणामविशेषेण ब्राह्मणेषु तपस्विषु
पित्र्याणि बहुरत्नानि यज्ञान्परमदुस्तरान्
चकार रामो धर्मात्मा पितॄन्देवान्विवर्धयन्