Uttarakanda, Sarga 86, Verse 1
रामो बहून्यहान्येव तद्गीतं परमाद्भुतम्
शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
रामो बहून्यहान्येव तद्गीतं परमाद्भुतम्
शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः
तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ
तस्याः परिषदो मध्ये रामो वचनमब्रवीत्
मद्वचो ब्रूत गच्छध्वमिति भगवतोऽन्तिकम्
यदि शुद्धसमाचारा यदि वा वीतकल्मषा
करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम्
छन्दं मुनेस्तु विज्ञाय सीतायाश्च मनोगतम्
प्रत्ययं दातुकामायास्ततः शंसत मे लघु
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा
करोतु परिषन्मध्ये शोधनार्थं ममेह च
श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम्
दूताः संप्रययुर्वाटं यत्रास्ते मुनिपुंगवः
ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम्
ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च
तेषां तद्भाषितं श्रुत्वा रामस्य च मनोगतम्
विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत्
एवं भवतु भद्रं वो यथा तुष्यति राघवः
तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः
तथोक्ता मुनिना सर्वे रामदूता महौजसः
प्रत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे
ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः
ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत
भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः
पश्यन्तु सीताशपथं यश्चैवान्योऽभिकाङ्क्षते
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः
सर्वेषामृषिमुख्यानां साधुवादो महानभूत्
राजानश्च महात्मानः प्रशंसन्ति स्म राघवम्
उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः
एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः
विसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः