Uttarakanda, Sarga 85, Verse 1
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ
यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम्
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ
यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम्
तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस्ततः
अपूर्वां पाठ्य जातिं च गेयेन समलंकृताम्
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम्
बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत्
अथ कर्मान्तरे राजा समानीय महामुनीन्
पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा
पौराणिकाञ्शब्दवितो ये च वृद्धा द्विजातयः
एतान्सर्वान्समानीय गातारौ समवेशयत्
हृष्टा ऋषिगणास्तत्र पार्थिवाश्च महौजसः
पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ
परस्परमथोचुस्ते सर्व एव समं ततः
उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोद्धृतौ
जटिलौ यदि न स्यातां न वल्कलधरौ यदि
विशेषं नाधिगच्छामो गायतो राघवस्य च
तेषां संवदतामेवं श्रोतॄणां हर्षवर्धनम्
गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम्
न च तृप्तिं ययुः सर्वे श्रोतारो गेयसम्पदा
प्रवृत्तमादितः पूर्वं सर्गान्नारददर्शनात्
ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम्
ततोऽपराह्णसमये राघवः समभाषत
श्रुत्वा विंशतिसर्गांस्तान्भरतं भ्रातृवत्सलः
अष्टादश सहस्राणि सुवर्णस्य महात्मनोः
ददस्व शीघ्रं काकुत्स्थ बालयोर्मा वृथा श्रमः
दीयमानं सुवर्णं तन्नागृह्णीतां कुशीलवौ
ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ
वन्येन फलमूलेन निरतु स्वो वनौकसौ
सुवर्णेन हिरण्येन किं करिष्यावहे वने
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः
श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः
पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ
किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः
कर्ता काव्यस्य महतः को वासौ मुनिपुंगवः
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ
वाल्मीकिर्भगवान्कर्ता संप्राप्तो यज्ञसंनिधिम्
येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम्
आदिप्रभृति राजेन्द्र पञ्चसर्ग शतानि च
प्रतिष्ठा जीवितं यावत्तावद्राजञ्शुभाशुभम्
यदि बुद्धिः कृता राजञ्श्रवणाय महारथ
कर्मान्तरे क्षणी हूतस्तच्छृणुष्व सहानुजः
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम्
प्रहृष्टौ जग्मतुर्वासं यत्रासौ मुनिपुंगवः
रामोऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः
श्रुत्वा तद्गीतमाधुर्यं कर्मशालामुपागमत्