Uttarakanda, Sarga 84, Verse 1
वर्तमाने तथाभूते यज्ञे परमकेऽद्भुते
सशिष्य आजगामाशु वाल्मीकिर्मुनिपुंगवः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
वर्तमाने तथाभूते यज्ञे परमकेऽद्भुते
सशिष्य आजगामाशु वाल्मीकिर्मुनिपुंगवः
स दृष्ट्वा दिव्यसंकाशं यज्ञमद्भुतदर्शनम्
एकान्ते ऋषिवाटानां चकार उटजाञ्शुभान्
स शिष्यावब्रवीद्धृष्टो युवां गत्वा समाहितौ
कृत्स्नं रामायणं काव्यं गायतां परया मुदा
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च
रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च
रामस्य भवनद्वारि यत्र कर्म च वर्तते
ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः
इमानि च फलान्यत्र स्वादूनि विविधानि च
जातानि पर्वताग्रेषु आस्वाद्यास्वाद्य गीयताम्
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै
मूलानि च सुमृष्टानि नगरात्परिहास्यथ
यदि शब्दापयेद्रामः श्रवणाय महीपतिः
ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम्
दिवसे विंशतिः सर्गा गेया वै परया मुदा
प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टं मया पुरा
लोभश्चापि न कर्तव्यः स्वल्पोऽपि धनकाङ्क्षया
किं धनेनाश्रमस्थानां फलमूलोपभोगिनाम्
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ
वाल्मीकेरथ शिष्यौ हि ब्रूतामेवं नराधिपम्
इमास्तन्त्रीः सुमधुराः स्थानं वा पूर्वदर्शितम्
मूर्छयित्वा सुमधुरं गायेतां विगतज्वरौ
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम्
पिता हि सर्वभूतानां राजा भवति धर्मतः
तद्युवां हृष्टमनसौ श्वः प्रभाते समाधिना
गायेतां मधुरं गेयं तन्त्रीलयसमन्वितम्
इति संदिश्य बहुशो मुनिः प्राचेतसस्तदा
वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः
तामद्भुतां तौ हृदये कुमारौ; निवेश्य वाणीमृषिभाषितां शुभाम्
समुत्सुकौ तौ सुखमूषतुर्निशां; यथाश्विनौ भार्गवनीतिसंस्कृतौ