Uttarakanda, Sarga 82, Verse 1
एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः
लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः
लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः
वसिष्ठं वामदेवं च जाबालिमथ कश्यपम्
द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान्
एतान्सर्वान्समाहूय मन्त्रयित्वा च लक्ष्मण
हयं लक्ष्मणसंपन्नं विमोक्ष्यामि समाधिना
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः
द्विजान्सर्वान्समाहूय दर्शयामास राघवम्
ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम्
राघवं सुदुराधर्षमाशीर्भिः समपूजयन्
प्राञ्जलिस्तु ततो भूत्वा राघवो द्विजसत्तमान्
उवाच धर्मसंयुक्तमश्वमेधाश्रितं वचः
स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम्
अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत्तदा
विज्ञाय तु मतं तेषां रामो लक्ष्मणमब्रवीत्
प्रेषयस्व महाबाहो सुग्रीवाय महात्मने
शीघ्रं महद्भिर्हरिभिर्बहुभिश्च तदाश्रयैः
सार्धमागच्छ भद्रं ते अनुभोक्तुं मखोत्तमम्
विभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः
अश्वमेधं महाबाहुः प्राप्नोतु लघुविक्रमः
राजानश्च नरव्याघ्र ये मे प्रियचिकीर्षवः
सानुगाः क्षिप्रमायान्तु यज्ञभूमिमनुत्तमाम्
देशान्तरगता ये च द्विजा धर्मपरायणाः
निमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण
ऋषयश्च महाबाहो आहूयन्तां तपोधनाः
देशान्तरगता ये च सदाराश्च महर्षयः
यज्ञवाटश्च सुमहान्गोमत्या नैमिषे वने
आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम्
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम्
अयुतं तिलमुद्गस्य प्रयात्वग्रे महाबल
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः
अग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः
अन्तरापणवीथ्यश्च सर्वांश्च नटनर्तकान्
नैगमान्बालवृद्धांश्च द्विजांश्च सुसमाहितान्
कर्मान्तिकांश्च कुशलाञ्शिल्पिनश्च सुपण्डितान्
मातरश्चैव मे सर्वाः कुमारान्तःपुराणि च
काञ्चनीं मम पत्नीं च दीक्षार्हां यज्ञकर्मणि
अग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः