Uttarakanda, Sarga 79, Verse 1
तां कथामिलसंबद्धां रामेण समुदीरिताम्
लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
तां कथामिलसंबद्धां रामेण समुदीरिताम्
लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ
तौ रामं प्राञ्जलीभूत्वा तस्य राज्ञो महात्मनः
विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः
कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिम्
पुरुषो वा यदा भूतः कां वृत्तिं वर्तयत्यसौ
तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम्
कथयामास काकुत्ष्ठस्तस्य राज्ञो यथा गतम्
तमेव प्रथमं मासं स्त्रीभूत्वा लोकसुन्दरी
ताभिः परिवृता स्त्रीभिर्येऽस्य पूर्वं पदानुगाः
तत्काननं विगाह्याशु विजह्रे लोकसुन्दरी
द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा
वाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः
पर्वताभोगविवरे तस्मिन्रेमे इला तदा
अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः
सरः सुरुचिरप्रख्यं नानापक्षिगणायुतम्
ददर्श सा इला तस्मिन्बुधं सोमसुतं तदा
ज्वलन्तं स्वेन वपुषा पूर्णं सोममिवोदितम्
तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम्
यशक्सरं कामगमं तारुण्ये पर्यवस्थितम्
सा तं जलाशयं सर्वं क्षोभयामास विस्मिता
सह तैः पूर पुरुषैः स्त्रीभूतै रघुनन्दन
बुधस्तु तां निरीक्ष्यैव कामबाणाभिपीडितः
नोपलेभे तदात्मानं चचाल च तदाम्भसि
इलां निरीक्षमाणः स त्रैलोक्याभ्यधिकां शुभाम्
चिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका
न देवीषु न नागीषु नासुरीष्वप्सरःसु च
दृष्टपूर्वा मया काचिद्रूपेणैतेन शोभिता
सदृशीयं मम भवेद्यदि नान्यपरिग्रहा
इति बुद्धिं समास्थाय जलात्स्थलमुपागमत्
स आश्रमं समुपागम्य चतस्रः प्रमदास्ततः
शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे
स ताः पप्रच्छ धर्मात्म कस्यैषा लोकसुन्दरी
किमर्थमागता चेह सत्यमाख्यात माचिरम्
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम्
श्रुत्वा तु ताः स्त्रियः सर्वा ऊचुर्मधुरया गिरा
अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा
अपतिः काननान्तेषु सहास्माभिरटत्यसौ
तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य तु
विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः
सोऽर्थं विदित्वा निखिलं तस्य राज्ञो यथागतम्
सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुंगवः
अत्र किं पुरुषा भद्रा अवसञ्शैलरोधसि
वत्स्यथास्मिन्गिरौ यूयमवकाशो विधीयताम्
मूलपुत्रफलैः सर्वा वर्तयिष्यथ नित्यदा
स्त्रियः किम्पुरुषान्नाम भर्तॄन्समुपलप्स्यथ
ताः श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः
उपासां चक्रिरे शैलं बह्व्यस्ता बहुधा तदा