Uttarakanda, Sarga 77, Verse 1
तथा वृत्रवधं सर्वमखिलेन स लक्ष्मणः
कथयित्वा नरश्रेष्ठः कथाशेषमुपाक्रमत्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा वृत्रवधं सर्वमखिलेन स लक्ष्मणः
कथयित्वा नरश्रेष्ठः कथाशेषमुपाक्रमत्
ततो हते महावीर्ये वृत्रे देवभयंकरे
ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा
सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः
कालं तत्रावसत्कंचिद्वेष्टमानो यथोरगः
अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत्
भूमिश्च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना
निःस्रोतसश्चाम्बुवाहा ह्रदाश्च सरितस्तथा
संक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत्
क्षीयमाणे तु लोकेऽस्मिन्संभ्रान्तमनसः सुराः
यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन्
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः
तं देशं सहिता जग्मुर्यत्रेन्द्रो भयमोहितः
ते तु दृष्ट्वा सहस्राक्षं मोहितं ब्रह्महत्यया
तं पुरस्कृत्य देवेशमश्वमेधं प्रचक्रिरे
ततोऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः
ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर
ततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः
अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ
ते तामूचुस्ततो देवास्तुष्टाः प्रीतिसमन्विताः
चतुर्धा विभजात्मानमात्मनैव दुरासदे
देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम्
संनिधौ स्थानमन्यत्र वरयामास दुर्वसा
एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै
द्वितीयेन तु वृक्षेषु सत्यमेतद्ब्रवीमि वः
योऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु
त्रिरात्रं दर्पपर्णासु वसिष्ये दर्पघातिनी
हन्तारो ब्राह्मणान्ये तु प्रेक्षापूर्वमदूषकान्
तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः
प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे
तथा भवतु तत्सर्वं साधयस्व यथेप्सितम्
ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे
विज्वरः पूतपाप्मा च वासवः समपद्यत
प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठते
यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत्
ईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन
यजस्व सुमहाभाग हयमेधेन पार्थिव