Uttarakanda, Sarga 75, Verse 1
तथोक्तवति रामे तु भरते च महात्मनि
लक्ष्मणोऽपि शुभं वाक्यमुवाच रघुनन्दनम्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथोक्तवति रामे तु भरते च महात्मनि
लक्ष्मणोऽपि शुभं वाक्यमुवाच रघुनन्दनम्
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम्
पावनस्तव दुर्धर्षो रोचतां क्रतुपुंगवः
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि
ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः
पुरा किल महाबाहो देवासुरसमागमे
वृत्रो नाम महानासीद्दैतेयो लोकसंमतः
विस्तीर्णा योजनशतमुच्छ्रितस्त्रिगुणं ततः
अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः
शशास पृथिवीं सर्वां धर्मेण सुसमाहितः
तस्मिन्प्रशासति तदा सर्वकामदुघा मही
रसवन्ति प्रसूतानि मूलानि च फलानि च
अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः
स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम्
तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम्
तपो हि परमं श्रेयस्तपो हि परमं सुखम्
स निक्षिप्य सुतं ज्येष्ठं पौरेषु परमेश्वरम्
तप उग्रमुपातिष्ठत्तापयन्सर्वदेवताः
तपस्तप्यति वृत्रे तु वासवः परमार्तवत्
विष्णुं समुपसंक्रम्य वाक्यमेतदुवाच ह
तपस्यता महाबाहो लोका वृत्रेण निर्जिताः
बलवान्स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम्
यद्यसौ तप आतिष्ठेद्भूय एव सुरेश्वर
यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः
त्वं चैनं परमोदारमुपेक्षसि महाबल
क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः
तदा प्रभृति लोकानां नाथत्वमुपलब्धवान्
स त्वं प्रसादं लोकानां कुरुष्व सुमहायशः
त्वत्कृतेन हि सर्वं स्यात्प्रशान्तमजरं जगत्
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः
वृत्रघतेन महता एषां साह्यं कुरुष्व ह
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम्
असह्यमिदमन्येषामगतीनां गतिर्भवान्