Uttarakanda, Sarga 74, Verse 1
तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः
द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः
द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत्
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ
परिष्वज्य ततो रामो वाक्यमेतदुवाच ह
कृतं मया यथातथ्यं द्विजकार्यमनुत्तमम्
धर्मसेतुमतो भूयः कर्तुमिच्छामि राघवौ
युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम्
सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः
इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः
सुहुतेन सुयज्ञेन वरुणत्वमुपागमत्
सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित्
प्राप्तश्च सर्वलोकानां कीर्तिं स्थानं च शाश्वतम्
अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह
हितं चायति युक्तं च प्रयतौ वक्तुमर्हथ
श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः
भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह
त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा
प्रतिष्ठिता महाबाहो यशश्चामितविक्रम
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः
निरीक्षन्ते महात्मानो लोकनाथं यथा वयम्
प्रजाश्च पितृवद्राजन्पश्यन्ति त्वां महाबल
पृथिव्यां गतिभूतोऽसि प्राणिनामपि राघव
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप
पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते
पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः
सर्वेषां भविता तत्र क्षयः सर्वान्तकोपमः
स त्वं पुरुषशार्दूल गुणैरतुलविक्रम
पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते
भरतस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा
प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः
उवाच च शुभां वाणीं कैकेय्या नन्दिवर्धनम्
प्रीतोऽस्मि परितुष्टोऽस्मि तवाद्य वचनेन हि
इदं वचनमक्लीबं त्वया धर्मसमाहितम्
व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम्
एष तस्मादभिप्रायाद्राजसूयात्क्रतूत्तमात्
निवर्तयामि धर्मज्ञ तव सुव्याहृतेन वै
प्रजानां पालनं धर्मो राज्ञां यज्ञेन संमितः
तस्माच्छृणोमि ते वाक्यं साधूक्तं सुसमाहितम्