Uttarakanda, Sarga 70, Verse 1
तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः
गौरवाद्विस्मयाच्चैव भूयः प्रष्टुं प्रचक्रमे
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः
गौरवाद्विस्मयाच्चैव भूयः प्रष्टुं प्रचक्रमे
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः
श्वेतो वैदर्भको राजा कथं तदमृगद्विजम्
निःसत्त्वं च वनं जातं शून्यं मनुजवर्जितम्
तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः
रामस्य भाषितं श्रुत्वा कौतूहलसमन्वितम्
वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे
पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः
तस्य पुत्रो महानासीदिक्ष्वाकुः कुलवर्धनः
तं पुत्रं पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम्
पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह
तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव
ततः परमसंहृष्टो मनुः पुनरुवाच ह
प्रीतोऽस्मि परमोदारकर्ता चासि न संशयः
दण्डेन च प्रजा रक्ष मा च दण्डमकारणे
अपराधिषु यो दण्डः पात्यते मानवेषु वै
स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम्
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक
धर्मो हि परमो लोके कुर्वतस्ते भविष्यति
इति तं बहु संदिश्य मनुः पुत्रं समाधिना
जगाम त्रिदिवं हृष्टो ब्रह्मलोकमनुत्तमम्
प्रयाते त्रिदिवे तस्मिन्निक्ष्वाकुरमितप्रभः
जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत्
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतः सुतान्
जनयामास धर्मात्मा शतं देवसुतोपमान्
तेषामवरजस्तात सर्वेषां रघुनन्दन
मूढश्चाकृतिविद्यश्च न शुश्रूषति पूर्वजान्
नाम तस्य च दण्डेति पिता चक्रेऽल्पतेजसः
अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति
स पश्यमानस्तं दोषं घोरं पुत्रस्य राघव
विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिंदम
स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि
पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम्
पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो
पुरोहितं चोशनसं वरयामास सुव्रतम्
एवं स राजा तद्राज्यं कारयत्सपुरोहितः
प्रहृष्टमनुजाकीर्णं देवराज्यं यथा दिवि