Uttarakanda, Sarga 69, Verse 1
भुक्त्वा तु भाषितं वाक्यं मम राम शुभाक्षरम्
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
भुक्त्वा तु भाषितं वाक्यं मम राम शुभाक्षरम्
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन
शृणु ब्रह्मन्यथावृत्तं ममैतत्सुखदुःखयोः
दुरतिक्रमणीयं हि यथा पृच्छसि मां द्विज
पुरा वैदर्भको राजा पिता मम महायशाः
सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान्
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत
अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत्
ततः पितरि स्वर्याते पौरा मामभ्यषेचयन्
तत्राहं कृतवान्राज्यं धर्मेण सुसमाहितः
एवं वर्षसहस्राणि समतीतानि सुव्रत
राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः
सोऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम
कालधर्मं हृदि न्यस्य ततो वनमुपागमम्
सोऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम्
तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे
भ्रातरं सुरथं राज्ये अभिषिच्य नराधिपम्
इदं सरः समासाद्य तपस्तप्तं मया चिरम्
सोऽहं वर्षसहस्राणि तपस्त्रीणि महामुने
तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम्
ततो मां स्वर्गसंस्थं वै क्षुत्पिपासे द्विजोत्तम
बाधेते परमोदार ततोऽहं व्यथितेन्द्रियः
गत्वा त्रिभुवणश्रेष्ठं पितामहमुवाच ह
भगवन्ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः
कस्येयं कर्मणः प्राप्तिः क्षुत्पिपासावशोऽस्मि यत्
आहारः कश्च मे देव तन्मे ब्रूहि पितामह
पितामहस्तु मामाह तवाहारः सुदेवज
स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम्
अनुप्तं रोहते श्वेत न कदाचिन्महामते
दत्तं न तेऽस्ति सूक्ष्मोऽपि वने सत्त्वनिषेविते
तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया
स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम्
भक्षयस्वामृतरसं सा ते तृप्तिर्भविष्यति
यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः
आक्रमिष्यति दुर्धर्षस्तदा कृच्छाद्विमोक्ष्यसे
स हि तारयितुं सौम्य शक्तः सुरगणानपि
किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम्
सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम्
आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम
बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया
क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा
तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोक्षय
अन्येषामगतिर्ह्यत्र कुम्भयोनिमृते द्विजम्
इदमाभरणं सौम्य तारणार्थं द्विजोत्तम
प्रतिगृह्णीष्व ब्रह्मर्षे प्रसादं कर्तुमर्हसि
तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम्
तारणायोपजग्राह तदाभरणमुत्तमम्
मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे
मानुषः पूर्वको देहो राजर्षेः स ननाश ह
प्रनष्टे तु शरीरेऽसौ राजर्षिः परया मुदा
तृप्तः प्रमुदितो राजा जगाम त्रिदिवं पुनः
तेनेदं शक्रतुल्येन दिव्यमाभरणं मम
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम्