Uttarakanda, Sarga 68, Verse 1
पुरा त्रेतायुगे ह्यासीदरण्यं बहुविस्तरम्
समन्ताद्योजनशतं निर्मृगं पक्षिवर्जितम्
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
पुरा त्रेतायुगे ह्यासीदरण्यं बहुविस्तरम्
समन्ताद्योजनशतं निर्मृगं पक्षिवर्जितम्
तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम्
अहमाक्रमितुं सौम्य तदरण्यमुपागमम्
तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह
फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः
तस्यारण्यस्य मध्ये तु सरो योजनमायतम्
पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम्
तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम्
अरजस्कं तथाक्षोभ्यं श्रीमत्पक्षिगणायुतम्
तस्मिन्सरःसमीपे तु महदद्भुतमाश्रमम्
पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम्
तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ
प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे
अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित्
तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप
तमर्थं चिन्तयानोऽहं मुहूर्तं तत्र राघव
विष्ठितोऽस्मि सरस्तीरे किं न्विदं स्यादिति प्रभो
अथापश्यं मुहूर्तात्तु दिव्यमद्भुतदर्शनम्
विमानं परमोदारं हंसयुक्तं मनोजवम्
अत्यर्थं स्वर्गिणं तत्र विमाने रघुनन्दन
उपास्तेऽप्सरसां वीर सहस्रं दिव्यभूषणम्
गान्ति गेयानि रम्याणि वादयन्ति तथापराः
पश्यतो मे तदा राम विमानादवरुह्य च
तं शवं भक्षयामास स स्वर्गी रघुनन्दन
ततो भुक्त्वा यथाकामं मांसं बहु च सुष्ठु च
अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे
उपस्पृश्य यथान्यायं स स्वर्गी पुरुषर्षभ
आरोढुमुपचक्राम विमानवरमुत्तमम्
तमहं देवसंकाशमारोहन्तमुदीक्ष्य वै
अथाहमब्रुवं वाक्यं तमेव पुरुषर्षभ
को भवान्देवसंकाश आहारश्च विगर्हितः
त्वयायं भुज्यते सौम्य किं कर्थं वक्तुमर्हसि
आश्चर्यमीदृशो भावो भास्वरो देवसंमतः
आहारो गर्हितः सौम्य श्रोतुमिच्छामि तत्त्वतः