Uttarakanda, Sarga 64, Verse 1
प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः
प्रमुमोद सुखी राज्यं धर्मेण परिपालयन्
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः
प्रमुमोद सुखी राज्यं धर्मेण परिपालयन्
ततः कतिपयाहःसु वृद्धो जानपदो द्विजः
शवं बालमुपादाय राजद्वारमुपागमत्
रुदन्बहुविधा वाचः स्नेहाक्षरसमन्विताः
असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह
किं नु मे दुष्कृतं कर्म पूर्वं देहान्तरे कृतम्
यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम्
अप्राप्तयौवनं बालं पञ्चवर्षसमन्वितम्
अकाले कालमापन्नं दुःखाय मम पुत्रक
अल्पैरहोभिर्निधनं गमिष्यामि न संशयः
अहं च जननी चैव तव शोकेन पुत्रक
न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम्
केन मे दुष्कृतेनाद्य बाल एव ममात्मजः
अकृत्वा पितृकार्याणि नीतो वैवस्वतक्षयम्
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम्
मृत्युरप्राप्तकालानां रामस्य विषये यथा
रामस्य दुष्कृतं किंचिन्महदस्ति न संशयः
त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम्
भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्नुहि
उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल
संप्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम्
रामं नाथमिहासाद्य बालान्तकरणं नृपम्
राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः
असद्वृत्ते तु नृपतावकाले म्रियते जनः
यदा पुरेष्वयुक्तानि जना जनपदेषु च
कुर्वते न च रक्षास्ति तदाकालकृतं भयम्
सुव्यक्तं राजदोषोऽयं भविष्यति न संशयः
पुरे जनपदे वापि तदा बालवधो ह्ययम्
एवं बहुविधैर्वाक्यैर्निन्दयानो मुहुर्मुहुः
राजानं दुःखसंतप्तः सुतं तमुपगूहति