Uttarakanda, Sarga 63, Verse 1
ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम्
अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम्
अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः
मन्त्रिणो बलमुख्यांश्च निवर्त्य च पुरोधसं
जगाम रथमुख्येन हययुक्तेन भास्वता
स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः
अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः
स प्रविश्य पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः
प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा
उवाच प्राञ्जलिर्भूत्वा रामं सत्यपराक्रमम्
यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम्
हतः स लवणः पापः पुरी सा च निवेशिता
द्वादशं च गतं वर्षं त्वां विना रघुनन्दन
नोत्सहेयमहं वस्तुं त्वया विरहितो नृप
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम
मातृहीनो यथा वत्सस्त्वां विना प्रवसाम्यहम्
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत्
मा विषादं कृथा वीर नैतत्क्षत्रियचेष्टितम्
नावसीदन्ति राजानो विप्रवासेषु राघव
प्रजाश्च परिपाल्या हि क्षत्रधर्मेण राघव
काले काले च मां वीर अयोध्यामवलोकितुम्
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव
ममापि त्वं सुदयितः प्राणैरपि न संशयः
अवश्यं करणीयं च राज्यस्य परिपालनम्
तस्मात्त्वं वस काकुत्स्थ पञ्चरात्रं मया सह
ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम्
शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत्
स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया
उष्य तत्र महेष्वासो गमनायोपचक्रमे
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम्
भरतं लक्ष्मणं चैव महारथमुपारुहत्
दूरं ताभ्यामनुगतो लक्ष्मणेन महात्मना
भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा