Uttarakanda, Sarga 60, Verse 1
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम्
व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम्
व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः
ततः प्रभाते विमले तस्मिन्काले स राक्षसः
निर्गतस्तु पुराद्वीरो भक्षाहारप्रचोदितः
एतस्मिन्नन्तरे शूरः शत्रुघ्नो यमुनां नदीम्
तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत
ततोऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः
आगच्छद्बहुसाहस्रं प्राणिनामुद्वहन्भरम्
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम्
तमुवाच ततो रक्षः किमनेन करिष्यसि
ईदृशानां सहस्राणि सायुधानां नराधम
भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम्
आहारश्चाप्यसंपूर्णो ममायं पुरुषाधम
स्वयं प्रविष्टो नु मुखं कथमासाद्य दुर्मते
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः
शत्रुघ्नो वीर्यसंपन्नो रोषादश्रूण्यवर्तयत्
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः
तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन्
उवाच च सुसंक्रुद्धः शत्रुघ्नस्तं निशाचरम्
योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः
शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम्
शत्रुस्त्वं सर्वजीवानां न मे जीवन्गमिष्यसि
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव
प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोऽसि दुर्मते
मम मातृष्वसुर्भ्राता रावणो नाम राक्षसः
हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम्
अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः
न हताश्च हि मे सर्वे परिभूतास्तृणं यथा
भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते
ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम्
तमुवाचाथ शत्रुघ्नः क्व मे जीवन्गमिष्यसि
दुर्बलोऽप्यागतः शत्रुर्न मोक्तव्यः कृतात्मना
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ
स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा