Uttarakanda, Sarga 59, Verse 1
अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम्
पप्रच्छ च्यवनं विप्रं लवणस्य बलाबलम्
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम्
पप्रच्छ च्यवनं विप्रं लवणस्य बलाबलम्
शूलस्य च बलं ब्रह्मन्के च पूर्वं निपातिताः
अनेन शूलमुखेन द्वन्द्वयुद्धमुपागताः
तस्य तद्भाषितं श्रुत्वा शत्रुघ्नस्य महात्मनः
प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम्
असंख्येयानि कर्माणि यान्यस्य पुरुषर्षभ
इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणुष्व मे
अयोध्यायां पुरा राजा युवनाश्वसुतो बली
मान्धाता इति विख्यातस्त्रिषु लोकेषु वीर्यवान्
स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः
सुरलोकमथो जेतुमुद्योगमकरोन्नृपः
इन्द्रस्य तु भयं तीव्रं सुराणां च महात्मनाम्
मान्धातरि कृतोद्योगे देवलोकजिगीषया
अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः
वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत
तस्य पापमभिप्रायं विदित्वा पाकशासनः
सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम्
राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ
अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि
यदि वीर समग्रा ते मेदिनी निखिला वशे
देवराज्यं कुरुष्वेह सभृत्यबलवाहनः
इन्द्रमेवं ब्रुवाणं तु मान्धाता वाक्यमब्रवीत्
क्व मे शक्र प्रतिहतं शासनं पृथिवीतले
तमुवाच सहस्राक्षो लवणो नाम राक्षसः
मधुपुत्रो मधुवने नाज्ञां ते कुरुतेऽनघ
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम्
व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह
आमन्त्र्य तु सहस्राक्षं ह्रिया किंचिदवाङ्मुखः
पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः
स कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनः
आजगाम मधोः पुत्रं वशे कर्तुमनिन्दितः
स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः
दूतं संप्रेषयामास सकाशं लवणस्य सः
स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम्
वदन्तमेवं तं दूतं भक्षयामास राक्षसः
चिरायमाणे दूते तु राजा क्रोधसमन्वितः
अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः
ततः प्रहस्य लवणः शूलं जग्राह पाणिना
वधाय सानुबन्धस्य मुमोचायुधमुत्तमम्
तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम्
भस्मीकृत्य नृपं भूयो लवणस्यागमत्करम्
एवं स राजा सुमहान्हतः सबलवाहनः
शूलस्य च बलं वीर अप्रमेयमनुत्तमम्
श्वः प्रभाते तु लवणं वधिष्यसि न संशयः
अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव