Uttarakanda, Sarga 58, Verse 1
यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत्
तामेव रात्रिं सीतापि प्रसूता दारकद्वयम्
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत्
तामेव रात्रिं सीतापि प्रसूता दारकद्वयम्
ततोऽर्धरात्रसमये बालका मुनिदारकाः
वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम्
तस्य रक्षां महातेजः कुरु भूतविनाशिनीम्
तेषां तद्वचनं श्रुत्वा मुनिर्हर्षमुपागमत्
भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम्
कुशमुष्टिमुपादाय लवं चैव तु स द्विजः
वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम्
यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसंस्कृतैः
निर्मार्जनीयस्तु भवेत्कुश इत्यस्य नामतः
यश्चापरो भवेत्ताभ्यां लवेन सुसमाहितः
निर्मार्जनीयो वृद्धाभिर्लवश्चेति स नामतः
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ
मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः
ते रक्षां जगृहुस्तां च मुनिहस्तात्समाहिताः
अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः
तथा तां क्रियमाणां तु रक्षां गोत्रं च नाम च
संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ
अर्धारात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम्
पर्णशालां गतो रात्रौ दिष्ट्या दिष्ट्येति चाब्रवीत्
तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः
व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमा
प्रभाते तु महावीर्यः कृत्वा पौर्वाह्णिकं क्रमम्
मुनिं प्राञ्जलिरामन्त्र्य प्रायात्पश्चान्मुखः पुनः
स गत्वा यमुनातीरं सप्तरात्रोषितः पथि
ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात्
स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः
कथाभिर्बहुरूपाभिर्वासं चक्रे महायशाः