Uttarakanda, Sarga 56, Verse 1
एवमुक्त्वा तु काकुत्स्थं प्रशस्य च पुनः पुनः
पुनरेवापरं वाक्यमुवाच रघुनन्दनः
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्त्वा तु काकुत्स्थं प्रशस्य च पुनः पुनः
पुनरेवापरं वाक्यमुवाच रघुनन्दनः
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ
रथानां च सहस्रे द्वे गजानां शतमेव च
अन्तरापणवीथ्यश्च नानापण्योपशोभिताः
अनुगच्छन्तु शत्रुघ्न तथैव नटनर्तकाः
हिरण्यस्य सुवर्णस्य अयुतं पुरुषर्षभ
गृहीत्वा गच्छ शत्रुघ्न पर्याप्तधनवाहनः
बलं च सुभृतं वीर हृष्टपुष्टमनुत्तमम्
संभाष्य संप्रदानेन रञ्जयस्व नरोत्तम
न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः
सुप्रीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव
अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम्
एक एव धनुष्पानिस्तद्गच्छ त्वं मधोर्वनम्
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम्
लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितः
न तस्य मृत्युरन्योऽस्ति कश्चिद्धि पुरुषर्षभ
दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि
स ग्रीष्मे व्यपयाते तु वर्षरात्र उपस्थिते
हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः
महर्षींस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः
यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम्
ततः स्थाप्य बलं सर्वं नदीतीरे समाहितः
अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम
एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान्
सेनामुख्यान्समानीय ततो वाक्यमुवाच ह
एते वो गणिता वासा यत्र यत्र निवत्स्यथ
स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित्
तथा तांस्तु समाज्ञाप्य निर्याप्य च महद्बलम्
कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत्
रामं प्रदक्षिणं कृत्वा शिरसाभिप्रणम्य च
रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः
पुरोधसं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान्
प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः