Uttarakanda, Sarga 54, Verse 1
तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः
किमाहारः किमाचारो लवणः क्व च वर्तते
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः
किमाहारः किमाचारो लवणः क्व च वर्तते
राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते
ततो निवेदयामासुर्लवणो ववृधे यथा
आहारः सर्वसत्त्वानि विशेषेण च तापसाः
आचारो रौद्रता नित्यं वासो मधुवने सदा
हत्वा दशसहस्राणि सिंहव्याघ्रमृगद्विपान्
मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम्
ततोऽपराणि सत्त्वानि खादते स महाबलः
संहारे समनुप्राप्ते व्यादितास्य इवान्तकः
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन्
घातयिष्यामि तद्रक्षो व्यपगच्छतु वो भयम्
तथा तेषां प्रतिज्ञाय मुनीनामुग्रतेजसाम्
स भ्रातॄन्सहितान्सर्वानुवाच रघुनन्दनः
को हन्ता लवणं वीराः कस्यांशः स विधीयताम्
भरतस्य महाबाहोः शत्रुघ्नस्याथ वा पुनः
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत्
अहमेनं वधिष्यामि ममांशः स विधीयताम्
भरतस्य वचः श्रुत्वा शौर्यवीर्यसमन्वितम्
लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम्
शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम्
कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः
आर्येण हि पुरा शून्या अयोध्या रक्षिता पुरी
संतापं हृदये कृत्वा आर्यस्यागमनं प्रति
दुःखानि च बहूनीह अनुभूतानि पार्थिव
शयानो दुःखशय्यासु नन्दिग्रामे महात्मना
फलमूलाशनो भूत्वा जटाचीरधरस्तथा
अनुभूयेदृशं दुःखमेष राघवनन्दनः
प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात्
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत्
एवं भवतु काकुत्स्थ क्रियतां मम शासनम्
राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे
निवेशय महाबाहो भरतं यद्यवेक्षसे
शूरस्त्वं कृतविद्यश्च समर्थः संनिवेशने
नगरं मधुना जुष्टं तथा जनपदाञ्शुभान्
यो हि वंशं समुत्पाट्य पार्थिवस्य पुनः क्षये
न विधत्ते नृपं तत्र नरकं स निगच्छति
स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम्
राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे
उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम
बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः
अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम्
वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम्