Uttarakanda, Sarga 52, Verse 1
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत्
एते निवारिता राजन्द्वारि तिष्ठन्ति तापसाः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत्
एते निवारिता राजन्द्वारि तिष्ठन्ति तापसाः
भार्गवं च्यवनं नाम पुरस्कृत्य महर्षयः
दर्शनं ते महाराज चोदयन्ति कृतत्वराः
प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः
तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित्
प्रवेश्यन्तां महात्मानो भार्गवप्रमुखा द्विजाः
राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः
प्रवेशयामास ततस्तापसान्संमतान्बहून्
शतं समधिकं तत्र दीप्यमानं स्वतेजसा
प्रविष्टं राजभवनं तापसानां महात्मनाम्
ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बु सत्कृतम्
गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु
प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः
तीर्थोदकानि सर्वाणि फलानि विविधानि च
उवाच च महाबाहुः सर्वानेव महामुनीन्
इमान्यासनमुख्यानि यथार्हमुपविश्यताम्
रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः
बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते
उपविष्टानृषींस्तत्र दृष्ट्वा परपुरंजयः
प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत्
किमागमनकार्यं वः किं करोमि तपोधनाः
आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम्
इदं राज्यं च सकलं जीवितं च हृदि स्थितम्
सर्वमेतद्द्विजार्थं मे सत्यमेतद्ब्रवीमि वः
तस्य तद्वचनं श्रुत्वा साधुवादो महानभूत्
ऋषीणामुग्रतपसां यमुनातीरवासिनाम्
ऊचुश्च ते महात्मानो हर्षेण महतान्विताः
उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः
बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः
कार्यगौरवमश्रुत्वा प्रतिज्ञां नाभ्यरोचयन्
त्वया पुनर्ब्राह्मणगौरवादियं; कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम्
कुरुष्व कर्ता ह्यसि नात्र संशयो; महाभयात्त्रातुमृषींस्त्वमर्हसि