Uttarakanda, Sarga 50, Verse 1
तथा संचोदितः सूतो लक्ष्मणेन महात्मना
तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा संचोदितः सूतो लक्ष्मणेन महात्मना
तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे
पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः
वसिष्ठस्याश्रमे पुण्ये स वार्षिक्यमुवास ह
तमाश्रमं महातेजाः पिता ते सुमहायशाः
पुरोधसं महात्मानं दिदृक्षुरगमत्स्वयम्
स दृष्ट्वा सूर्यसंकाशं ज्वलन्तमिव तेजसा
उपविष्टं वसिष्ठस्य सव्ये पार्श्वे महामुनिम्
तौ मुनी तापसश्रेष्ठौ विनीतस्त्वभ्यवादयत्
स ताभ्यां पूजितो राजा स्वागतेनासनेन च
पाद्येन फलमूलैश्च सोऽप्यास्ते मुनिभिः सह
तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः
बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि
ततः कथायां कस्यांचित्प्राञ्जलिः प्रग्रहो नृपः
उवाच तं महात्मानमत्रेः पुत्रं तपोधनम्
भगवन्किंप्रमाणेन मम वंशो भविष्यति
किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः
रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत्
काम्यया भगवन्ब्रूहि वंशस्यास्य गतिं मम
तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु
दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे
अयोध्यायाः पती रामो दीर्घकालं भविष्यति
सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य चानुजाः
कस्मिंश्चित्करणे त्वां च मैथिलीं च यशस्विनीम्
संत्यजिष्यति धर्मात्मा कालेन महता किल
दशवर्षसहस्रणि दशवर्षशतानि च
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति
समृद्धैर्हयमेधैश्च इष्ट्वा परपुरंजयः
राजवंशांश्च काकुत्स्थो बहून्संस्थापयिष्यति
स सर्वमखिलं राज्ञो वंशस्यास्य गतागतम्
आख्याय सुमहातेजास्तूष्णीमासीन्महाद्युतिः
तूष्णींभूते मुनौ तस्मिन्राजा दशरथस्तदा
अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम्
एतद्वचो मया तत्र मुनिना व्याहृतं पुरा
श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति
एवं गते न संतापं गन्तुमर्हसि राघव
सीतार्थे राघवार्थे वा दृढो भव नरोत्तम
तच्छ्रुत्वा व्याहृतं वाक्यं सूतस्य परमाद्भुतम्
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्
तयोः संवदतोरेवं सूतलक्ष्मणयोः पथि
अस्तमर्को गतो वासं गोमत्यां तावथोषतुः