Uttarakanda, Sarga 49, Verse 1
दृष्ट्वा तु मैथिलीं सीतामाश्रमं संप्रवेशिताम्
संतापमकरोद्घोरं लक्ष्मणो दीनचेतनः
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
दृष्ट्वा तु मैथिलीं सीतामाश्रमं संप्रवेशिताम्
संतापमकरोद्घोरं लक्ष्मणो दीनचेतनः
अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम्
सीतासंतापजं दुःखं पश्य रामस्य धीमतः
अतो दुःखतरं किं नु राघवस्य भविष्यति
पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम्
व्यक्तं दैवादहं मन्ये राघवस्य विनाभवम्
वैदेह्या सारथे सार्धं दैवं हि दुरतिक्रमम्
यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः
निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते
पुरा मम पितुर्वाक्यैर्दण्डके विजने वने
उषितो नव वर्षाणि पञ्च चैव सुदारुणे
ततो दुःखतरं भूयः सीताया विप्रवासनम्
पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे
को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे
मैथिलीं प्रति संप्राप्तः पौरैर्हीनार्थवादिभिः
एता बहुविधा वाचः श्रुत्वा लक्ष्मणभाषिताः
सुमन्त्रः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह
न संतापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति
दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः
भविष्यति दृढं रामो दुःखप्रायोऽल्पसौख्यवान्
त्वां चैव मैथिलीं चैव शत्रुघ्नभरतौ तथा
संत्यजिष्यति धर्मात्मा कालेन महता महान्
न त्विदं त्वयि वक्तव्यं सौमित्रे भरतेऽपि वा
राज्ञा वोऽव्याहृतं वाक्यं दुर्वासा यदुवाच ह
महाराजसमीपे च मम चैव नरर्षभ
ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च संनिधौ
ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः
सूत न क्वचिदेवं ते वक्तव्यं जनसंनिधौ
तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः
नैव जात्वनृतं कुर्यामिति मे सौम्य दर्शनम्
सर्वथा नास्त्यवक्तव्यं मया सौम्य तवाग्रतः
यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन
यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा
तच्चाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम्
तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत्
तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत्