Uttarakanda, Sarga 48, Verse 1
सीतां तु रुदतीं दृष्ट्वा ये तत्र मुनिदारकाः
प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरग्र्यधीः
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
सीतां तु रुदतीं दृष्ट्वा ये तत्र मुनिदारकाः
प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरग्र्यधीः
अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये
सर्वे निवेदयामासुस्तस्यास्तु रुदितस्वनम्
अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः
पत्नी श्रीरिव संमोहाद्विरौति विकृतस्वरा
भगवन्साधु पश्येमां देवतामिव खाच्च्युताम्
न ह्येनां मानुषीं विद्मः सत्क्रियास्याः प्रयुज्यताम्
तेषां तद्वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित्
तपसा लब्धचक्षुष्मान्प्राद्रवद्यत्र मैथिली
तं तु देशमभिप्रेत्य किंचित्पद्भ्यां महामुनिः
अर्घ्यमादाय रुचिरं जाह्नवीतीरमाश्रितः
ददर्श राघवस्येष्टां पत्नीं सीतामनाथवत्
तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुंगवः
उवाच मधुरां वाणीं ह्लादयन्निव तेजसा
स्नुषा दशरथस्य त्वं रामस्य महिषी सती
जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते
आयान्त्येवासि विज्ञाता मया धर्मसमाधिना
कारणं चैव सर्वं मे हृदयेनोपलक्षितम्
अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा
विशुद्धभावा वैदेहि साम्प्रतं मयि वर्तसे
आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः
तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः
इदमर्घ्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा
यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः
श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम्
शिरसा वन्द्य चरणौ तथेत्याह कृताञ्जलिः
तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतोऽन्वगात्
अन्वयाद्यत्र तापस्यो धर्मनित्याः समाहिताः
तं दृष्ट्वा मुनिमायान्तं वैदेह्यानुगतं तदा
उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन्
स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं प्रभो
अभिवादयामः सर्वास्त्वामुच्यतां किं च कुर्महे
तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत्
सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः
स्नुषा दशरथस्यैषा जनकस्य सुता सती
अपापा पतिना त्यक्ता परिपाल्या मया सदा
इमां भवत्यः पश्यन्तु स्नेहेन परमेण ह
गौरवान्मम वाक्यस्य पूज्या वोऽस्तु विशेषतः
मुहुर्मुहुश्च वैदेहीं परिसान्त्व्य महायशाः
स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः